________________
९५६
न्यायकोशः। कटे शेते गुरौ वसति इत्यादि। द्वितीस्योदाहारणं मोक्षे इच्छास्तीति । तृतीयस्योदाहरणं तु तिलेषु तैलम् इति । अत्राचं सामीप्यसंबन्धनिबन्धनम् । आधेयव्याप्यतावच्छेदकयत्किंचिदवयवकम् इति यावत् । द्वितीयं विषयतासंबन्धनिरूपकम्। तृतीयमाधेयव्याप्यतावच्छेदकयावदवयवकम् । कटे शेते इत्यत्र परम्परया कटाभिन्नाश्रयकः शयनानुकूलो व्यापारः इति बोधः। एवमन्यत्राप्यूह्यम् (वै० सा० द० सुबर्थ० पृ० ८६ )। २ कचित् निरूपकत्वम् निरूप्यत्वं वा सप्तम्यर्थः। यथा भूतले वर्तते घटः इत्यादौ भूतलपदोत्तरवर्तिसप्तम्या अर्थः । यथा वा इति हेतुस्तदुद्भवे (काव्यप्र० १) इत्यादौ हेतुतायाम् उद्भवपदार्थोत्पत्तिनिरूपितत्वं सप्तम्या बोध्यते । ३ क्वचित् अवच्छेद्यताविशेषः । यथा वीणायां शब्दः कर्णे शब्दः वृक्षाग्रे कपिसंयोगः इत्यादौ सप्तम्यर्थः (ग० व्यु० का० ७ पृ० ११६ )। ४ निमित्तत्वम् । यथा चर्मणि द्वीपिनं हन्ति मशकनिवृत्तौ धूम करोति इत्यादौ सप्तम्यर्थः ( का० व्या० पृ० ११) । अत्र चर्मोद्देश्यकद्वीपिकर्मकहननकर्ता इति बोधः । अधिकं तु निमित्तत्वशब्दव्याख्याने दृश्यम् । ५ उत्पत्तिः । यथा शरदि पुष्प्यन्ति सप्तच्छदाः इत्यादौ सप्तम्यर्थः । अत्र शरदुत्पत्तिकपुष्पाश्रयाः सप्तच्छदाः इति वाक्यार्थः ( का० व्या० पृ० १२ )। ६ समानाधिकरणत्वम् । तच्च द्विविधम् कचित् कालिकम् कचित्तु दैशिकम् । तत्राचं समानकालीनत्वादिकम् । यथा गोषु दुह्यमानासु गतः इत्यादौ ( का० व्या० पृ० १२)। यथा वा घने वर्षति चौर आगतः इत्यादौ सप्तम्यर्थः ( म० प्र० पृ० ६-७)। अत्र वृष्टिसमानकालीनागमनाश्रयश्चौरः इति बोधः ( म० प्र० पृ० ७) । अत्रार्थे यस्य च भावेन भावलक्षणम् ( पाणि० २॥३॥३७ ) इत्यनेन सूत्रेण सप्तम्यनुशिष्यते । सूत्रार्थस्तु यस्य धर्मेण धर्मान्तरं निरुक्तस्वसामानाधिकरण्येन प्रतिपाद्यते तत्र सप्तमी इति (का० व्या० पृ० १२)। यद्विशेषणकृदन्तार्थविशेषणतापन्नक्रियया क्रियान्तरस्य लक्षणं व्यावर्तनं तद्वाचकपदात्सप्तमी इति वा। अत्रेदमधिकं विज्ञेयम्। वर्तमानार्थककृत्समभिव्याहारस्थले गोषु दुह्यमानासु गत इत्यादौ समानकालीनत्वम् । गोषु दोग्धव्यासु गत इत्यादिभविष्यदर्थककृत्स्थले
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org