________________
न्यायकोशः। संबन्धावच्छिन्नाधेयताप्रतियोगिकः अभावः नया बोध्यते इति सर्व सुस्थम् इति प्राहुः ( का० व्या० पृ० ११) । आधारत्वं च कर्तृकर्मद्वारा बोध्यम् । तत्र कारकत्वनिर्वाहार्थं परस्परासंबन्धस्यापि क्रियान्वयित्वरूपकारकत्वघटकतावश्यकी । यथा भूतले घटोस्ति इत्यादौ भूतलपदोत्तरसप्तम्यर्थः । अत्र भूतलवृत्तिघटो वर्तमानसत्ताश्रयः इति बोधः । नञ्सममिव्याहारे तु तादृशसप्तम्यर्थाभावो घटांशे भासते इति नैयायिकानां मतम् (वै० सा० द० सुबर्थ० पृ० ८७ )। वैयाकरणमते तु आश्रयः (अधिकरणम् ) सप्तम्यर्थः । कर्तृकर्मद्वारा धात्वर्थाश्रयः इत्यर्थः । यथा भूतले घटोस्ति गेहे तण्डुलं पचति इत्यादौ भूतलादिपदोत्तरसप्तम्यर्थः। अत्र सप्तम्यधिकरणे च ( पाणि० २।३।३६ ) इति सूत्रम् । तदर्थश्च शाब्दिकमते कर्तृकर्मान्यतरद्वारा क्रियाश्रयोधिकरणम् तत्र सप्तमी इति । गेहे चैत्र ओदनं पचति स्थाल्यामोदनं पचति इत्यादौ गेहस्य कर्तृद्वारा स्थाल्याश्च कर्मद्वारा क्रियाश्रयत्वादधिकरणत्वम् । तथा च क्रियारहितं वाक्यमप्रमाणम् इति परंपरया क्रियाश्रयात्मकाधिकरणस्यैव सप्तम्यर्थत्वम्। इत्थं च यत्र न क्रियाश्रवणम् गेहे घट इत्यादौ तत्र कारकत्वनिर्वाहाय क्रियाध्याहार आवश्यकः । एवं च गेहे घटः इत्यादौ क्रियापदाव्याहारेगैवाधिकरणत्वबोधः इति । तार्किकमते तु यत्राधिकरणत्वमाधेयत्वादि वा सप्तम्या बोध्यते तद्वाचकपदात्सप्तमी इति सूत्रार्थः । तथा च अधिकरणत्वमात्रम् आधेयत्वमानं वा सप्तम्यर्थः । स च यत्र क्रियायामन्वेति तत्र कारकत्वव्यवहारः । भूतले घटः इत्यक्रियवाक्यादपि शाब्दबोधस्यानुभवसिद्धत्वात् । तद्वदेव गेहे घटः इत्यादावपि क्रियापदं विनापि गेहाधेयत्ववान् घटः इति बोधो नानुपपन्न इति अत्रत्या सप्तमी न कारकविभक्तिः अपि तु कारकार्थान्यैव ( का० व्या० पृ० ११) इति । अत्र प्रमाणम् सप्तम्यधिकरणे च (पाणि० २।३।३६) इत्यत्र चकारेणाकारकाधारवाचिनोपि सप्तमी विधीयत इति । अत एव साध्यवद्भिन्ने यः साध्याभावः ( दीधि० व्याप्तिनि०) इति सप्तमीतत्पुरुषेण व्याख्यानं संगच्छते (ग० व्यु० का० ७ पृ० ११६ )। अधिकरणं च त्रिविधम् औपश्लेषिकम् वैषयिकम् अभिव्यापकं चेति । तत्राद्यस्योदाहरणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org