________________
न्यायकोशः। सप्तदशस्तोमः-एकस्मिन्सूक्ते विद्यमानानां तिसृणामृचां ब्राह्मणोक्तविधानेन
सप्तदशधाभ्यासः ( जै० न्या० अ० ७ पा० ३ अधि० ३)। सप्तभङ्गिनयः-स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः
स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति च नास्ति चावक्तव्यः
इति न्यायः ( सर्व० सं० पृ० ८२ आई० )। सप्तमी-(विभक्तिः ) अधिकरणतायामाधेयत्वे वा शक्ता सुप् ( श० प्र०
श्लो० ६६ टी० पृ० ७६ )। यथा गेहे पचति इत्यादौ गेहपदोत्तरवर्तिनी सप्तमी । अत्र आधेयत्वं सप्तम्यर्थः । तस्य च क्रियायामन्वयः । भुवि गच्छति इत्यादौ तु कर्तृघटितपरंपरासंबन्धावच्छिन्नाधारत्वमेव सप्तम्यर्थः (ग० व्यु. का० ७ पृ० ११६ )। गेहे पचतीत्यत्र सप्तमीत्वं च पचधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मिकस्वार्थाधेयत्वबोधानुकूलसुप्सजातीयत्वम् । चैत्रधर्मिकस्वार्थाधिकरणत्वान्वयबोधकसुप्समानानुपूर्वीकत्वं वा इत्यपि वदन्ति । ग्राममध्यास्ते इत्यादी अधिकरणत्वं बोधयन्त्यपि द्वितीयादिः न तत्र अक्ता । ग्रामाय गच्छति इत्यादौ कर्मत्वादिष्वेव चतुर्थ्यादिः शक्ता इति द्वितीयाचतुर्थ्यादीनां निरासः ( श० प्र० श्लो० ६६ टी० पृ० ७६ )। अथ सप्तम्यर्थः उच्यते । १ न्यायमते आधारत्वम् आधेयत्वं वा सप्तम्यर्थः । तच्चाखण्डोपाधिः इति प्राश्च आहुः (वै० सा० द० पृ० ८६)। नव्यास्तु स्वरूपसंबन्धविशेष एव तत् इत्याहुः । अत्र विप्रतिपत्तिः सप्रम्यर्थ आधारत्वं वा आधेयत्वं वा इति । तत्र अधिकरणत्वमानं सप्तम्यर्थः । तथा च भूतलनिष्ठाधिकरणतानिरूपको घटः इत्याकारको बोधः । तत्र निष्ठत्वम् निरूपकत्वं च संसर्गमर्यादया भासते इति प्राञ्चो नैयायिका आहुः । नव्यनैयायिकास्तु प्राग्भिरुक्तं युक्तं न। तथाङ्गीकारे तु निरूपकत्व- । संबन्धस्य वृत्त्यनियामकत्वेन प्रतियोगितानवच्छेदकत्वात् भूतले न घटः इत्यादौ नबर्थान्वयासंभवः । अतः तत्राधेयत्वमानं सप्तम्यर्थः । तथा च भूतलनिरूपिताधेयत्वाश्रयो घटः इत्यन्वयबोधः स्वीकार्यः । तत्र निरूपितत्वम आश्रयत्वं च संसर्गः । इत्थं च भूतले न घटः इत्यादौ आश्रयता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org