________________
न्यायकोशः। लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्त्वेषां सापिण्ड्यं साप्तपौरुषम् ॥ ( मत्स्यपु० ) इति । तत्र शरीरावयवान्वयसापिण्ड्यम् आशौच विवाह दायग्रहण एतेषु त्रिष्वप्युपयुज्यते इति हेमाद्रिमाधवविज्ञानेश्वरस्मृतिचन्द्रिकाकारमित्रमिश्रकमलाकरादीनां मतम् । अत्रोक्तम् वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः । पञ्चमी चेत्तयोर्माता तत्सापिण्ड्यं निवर्तते ॥ इति धर्मसिन्धौ धृतं वाक्यम् । पञ्चमात्सप्तमादूवं मातृतः पितृतस्तथा ( याज्ञव० ११५३ ) इति । तथा च पित्रादयः षट् सपिण्डाः पुत्रादयश्च षट् आत्मा च सप्तमः ( मिता० ११५३) इति । कामधेनुहारलताकल्पतरुपारिजातकारादीनां तन्मतानुसारिजीमूतवाहनस्य च मतं तु सपिण्डता हि विषयभेदेन त्रिविधा आशौचोपयोगिनी विवाहोपयोगिनी दायग्रहणोपयोगिनी च । तथा च शरीरान्वयसापिण्ड्यमाशौचे विवाहे चोपयुज्यते । निर्वाप्यपिण्डान्वयसापिण्ड्यं तु दायग्रहणे उपयुज्यते इति । यथोदाहृतं (शु० त० ) रघुनन्दनेन लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्त्वेषां सापिण्ड्यं साप्तपौरुषम् ॥ (मत्स्यपु० ) इति । हारलतायां कूर्मपुराणं च सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनानोरवेदने ॥ पिता पितामहश्चैव तथैव प्रपितामहः । लेपभाजश्चतुर्थाद्याः सापिण्ड्यं साप्तपौरुषम् ॥ इति । भ्रात्रादीनामपि सापिण्ड्यमुक्तं बौधायनेन प्रपितामहः पितामहः पिता स्वयम् सोदर्यभ्रातरः सवर्णायाः पुत्रः पौत्रः प्रपौत्रो वा एतानविभक्तदायादान् सपिण्डानाचक्षते । विभक्तदायादान् सकुल्यानाचक्षते असत्स्वङ्गजेषु तद्गामी ह्यर्थो भवति इति । किंच स्त्रीणामपि भर्तृसापिण्ड्येन सापिण्ड्यम् । अनूढायाः कन्यायास्तु त्रिपौरुषं सापिण्ड्यम्। तथा च गोत्रैक्ये सति पिण्डलेपयोर्दातृत्वभोक्तत्वान्यतरवत्त्वमाशौचसापिण्ड्यम् । साक्षात्परंपरया वा सप्तमपर्यन्तदेहसंबन्धवत्त्वं विवाहसापिण्ड्यम् । त्रिपुरुषपर्यन्तं देयपिण्डदातृत्वमोक्तत्वान्यतरवत्त्वं दायग्रहणे सापिण्ड्यम् इति वङ्गदेशीयानां जीमूतवाहनादीनां मतं बोध्यम् ( वाच०)। अधिकं तु तत्तद्धर्मशास्त्रग्रन्थेष्वन्वेषणीयम् इत्यलं विस्तरेण । १२. न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org