________________
न्यायकोशः।
९६८ । अत्रेदमवधेयम् । तदभाववत्तानिश्चयस्य तद्वत्ताबुद्धिप्रतिबन्धकताया
समानविषयकत्वं तन्त्रम् इति प्राचीनानां सिद्धान्तः इति । इदं च बोध्यम्। सामान्यतद्वत्ताबुद्धिं प्रति विशेषतदभाववत्तानिश्चयस्यापि समानविषयकत्वेन प्रतिबन्धकत्वं प्राचीनानामभिमतम् । अतः पर्वतो महानसीयवह्नयभाववान् इति निश्चयस्य पर्वतो वह्निमान् इति बुद्धिं प्रति प्रतिबन्धकत्वं संगच्छते इति ।
. समानाकारकत्वम्-[क] स्वस्मिन्यादृशी तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रका
रिता तादृशतद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारिताशालित्वम् ( कु० ३)। यथा पर्वतो वह्निमान् इति निश्चयस्य पर्वतो वह्निमान् न वा इति संशयसमानाकारकत्वम् (ग० हेत्वा० ल० २ पृ० ११)। इदं च संशये विषयताद्वयम् इति पक्षाभिप्रायकम् इति तु सूक्ष्मतरं विभावनीयं विद्वद्भिः। [ख ] स्वस्मिन्यादृशनिरूप्यनिरूपकभावापन्नविषयताकत्वम्
तादृशनिरूप्यनिरूपकभावापन्नविषयताकत्वम् इत्यस्मद्गुरुचरणाः प्राहुः । समानाधिकरणत्वम्-१ एकाधिकरणवृत्तिकत्वम्। यथा हेतुसमानाधिकरणा
त्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः इति व्याप्तिस्वरूपनिरुक्तौ पर्वतो वह्निमान् धूमात् इत्यादी लक्षणघटकीभूतधूमघटात्यन्ताभावयोः समानाधिकरणत्वम् । अत्र समानम् एकम् अधिकरणम् आश्रयः ययोः तयोर्भावः इति व्युत्पत्तिर्द्रष्टव्या। २ कोटिद्वयसहचरितत्वम् । यथा धूमधूमाभावसमानाधिकरणो वह्निः (ग० सव्यभि० ) इत्यादौ समानाधिकरणत्वशब्दार्थः। ३ शाब्दिकास्तु विभिन्न विभक्तिराहित्ये सति अभेदेनैकार्थबोधजनकत्वम् ( वृत्ति० )। यथा नीलो घटः परमराज्यम् महानवमी इत्यादौ नीलपदादिघटपदाधोरेकर्मिबोधकपदत्वरूपं समानाधिकरणत्वम् इत्याहुः । अत्रोदाहरन्ति लटः शतृशानचावप्रथमासमानाधिकरणे (पाणि० ३।२।१२४) इत्यत्र पचन्तं देवदत्तं पश्य पचमानं देवदत्तं पश्य इति । तत्पुरुषः समानाधिकरणः कर्मधारयः ( पाणि १।२।४२ ) इत्यत्र परमराज्यम् महानवमी इति च ( काशिका० )। शिष्टं तु सामानाधिकरण्यशब्दव्याख्याने दृश्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org