________________
· न्यायकोशः। साधकं हेत्वन्तरं प्रतिपक्षः इत्युच्यते । स च धूमवत्त्वे हेतौ नास्त्येव ।
अनुपलम्भात् ( त० भा० प्रमाणनि० पृ० १४ ) इति । सद्यः-(अव्ययम् ) १ तक्षणम् । यथा सद्यः शौचं विधीयते इत्यादौ ।
२ कचित् एकं दिनम् । सन् (धात्वंशः प्रत्ययः) अयं धातुप्रकृतिकः प्रत्ययः । [क ] कर्तु
रिच्छा ( तर्का० ४ पृ० ११) । स्वसामानाधिकरण्यस्वनिष्ठविषयतानिरूपितविषयित्वोभयसंबन्धेन प्रकृतधात्वर्थप्रधानीभूतव्यापारविशिष्टेच्छा इत्यर्थः । यथा घटं चिकीर्षति इत्यादौ सन्प्रत्ययार्थः। यथा वा पिपठिषति इत्यादौ सन्प्रत्ययार्थः ( ल० म० ) । अत्रेदं बोध्यम् । सन्नुत्तराख्यातस्याश्रयत्वे लक्षणा। सविषयकार्थकप्रकृतिकाख्यातस्य आश्रयत्वे लक्षणाया घटं जानाति इत्यादौ क्लप्तत्वात् (तर्का० ४ पृ० ११ ) इति । अत्र सन्नर्थेच्छायां धात्वर्थस्य कर्मत्व समानकर्तृकत्व एतदुभयसंबन्धेन विशेषणता बोध्या (ल० म०)।[ख] इच्छा । यथा पाकं चिकीर्षति
ओदनं बुभुक्षते इत्यादौ सन्प्रत्ययार्थः। अत्र सन्प्रत्ययार्थेच्छायां द्वितीयान्तेन लभ्यस्य पाकादिविशेष्यताकत्वस्य स्वरूपसंबन्धेन धात्वर्थस्य तु कृत्यांदेः स्वसाध्यत्वादिप्रकारिनिष्ठस्वसमानकर्तृकत्वसंबन्धेन अन्वयात् पाकधर्मिका निरुक्तसंबन्धेन कृतिमती या इच्छा तद्वान् इत्यादिरर्थः । अत्र समानकर्तृकत्वस्य निवेशात् अन्यदीयकृतिविषयपाकादाविच्छावति अयं चिकीर्षति पिपक्षति इत्यादिको न प्रयोगः इति चिन्तामणिकृत आहुः । सौन्दडस्तु प्राह । पाकं चिकीर्षतीत्यादौ द्वितीयार्थस्य विषयत्वस्य मूलधात्वर्थ एवान्वयः । तदर्थस्य तु समानकर्तृकत्वविषयत्वाभ्यां सन्नथेच्छायाम् । तथा च पाकविषयताककृतिसमानकर्तृकतद्गोचरेच्छावान् इत्यादिरेवार्थः । कारकविभक्तेः क्रियायामेव स्वार्थबोधकत्वात् । अत एव गृहं तिष्ठासति इत्यादिको न प्रयोगः। स्थितेगृहकर्मकत्वबाधात् । अन्यथा गृहधर्मिकां स्थितिप्रकारकेच्छां बोधयन्नयमेव प्रमाणं स्यात् । न तु गृहे तिष्ठासति इत्यादिः (श० प्र० श्लो० १०९ टी० पृ० १७०-१७१ ) इति। [ग] धात्वर्थविशेष्यकेच्छा । यथा पाकं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org