________________
न्यायकोशः।
सद्धेतुः-(हेतुः) [क] पञ्चरूपोपपन्नो हेतुः । पञ्च रूपाणि तु पक्षसत्त्वम् सपक्षसत्त्वम् विपक्षासत्त्वम् अबाधितविषयत्वम् असत्प्रतिपक्षत्वं चेति । अत्रेदं बोध्यम् पश्चरूपोपपन्न एव हेतुः स्वसाध्यं साधयितुं क्षमते न त्वेकेनापि रूपेण हीनः (त० भा० प्रमाणनि० पृ० १३ ) इति। [ख] व्याप्त्यादिविशिष्टहेतुः (नील० २ पृ० २४ )। [ग] प्रमितव्याप्तिपक्षधर्मताको हेतुः । स्वसाध्यानुमित्यौपयिकप्रमात्मकपरामर्शवान् इति यावत् (ग० सत्प्र०)। यथा पर्वतो वह्निमान् धूमात् इत्यादौ धूमः सद्धेतुः । अत्रायमर्थः। पर्वतत्वसामानाधिकरण्येन वह्नः साध्यत्वविवक्षायामेव धूमः सद्धेतुर्भवति न तु पर्वतत्वावच्छेदेन वह्नः साध्यत्वविवक्षायां धूमः सद्धेतुः । तत्र पर्वतत्वावच्छेदेन वढेरभावात् इति । अयं भावः । अवच्छेदकावच्छेदेन वह्नेः साध्यत्वे सामानाधिकरण्येन वह्नयभावस्य प्रसिद्धत्वेन तस्य च बाधरूपत्वात्तत्रत्यो हेतुर्हेत्वाभास एव भवति । अतः सामानाधिकरण्येनैव वह्नः साध्यत्वं विवक्षणीयम् । तथा च सति तत्र सामानाधिकरण्येन वह्नयभावस्य सत्त्वेपि तद्विषयकनिश्चयस्य तत्रत्यसाध्यवत्ताबुद्धिं प्रत्यप्रतिबन्धकत्वेन हेत्वाभासलक्षणानाक्रान्तत्वान्न तस्य बाधत्वम् । अवच्छेदकावच्छेदेन वह्नयभावविषयकनिश्चयस्य प्रतिबन्धकत्वेपि तादृशवह्नयभावस्य चाप्रसिद्धत्वेन तत्र न कोपि हेत्वाभासदोषः इति सामानाधिकरण्येन वह्निसाध्यकस्थलीयधूमः सद्धेतुर्भवति इति सूक्ष्मदर्शिभिः सुधीभिर्विभावनीयम् ( ग० २ हेत्वा० सामान्यनि० )। अत्रेदं बोध्यम् । उक्तानि पञ्चरूपाणि धूमवत्त्वादावन्वयव्यतिरेकिण्येव हेतौ विद्यन्ते । तथा हि ( १ ) धूमवत्त्वं पक्षस्य पर्वतस्य धर्मः । तस्य पर्वते विद्यमानत्वात् । (२) एवं सपक्षे सत्त्वम् । सपक्षे महानसे विद्यमानत्वात्। (३) एवम् विपक्षात् महादात् व्यावृत्तिः । तत्र धूमो नास्ति इति । ( ४ ) एवम् अबाधितविषयं धूमवत्त्वम् । तथा हि धूमवत्त्वस्य हेतोर्विषयः साध्यो धर्मः । तच्चाग्निमत्त्वम् । तत्केनापि प्रमाणेन न बाधितम् न खण्डितम् इत्यर्थः । ( ५ ) एवम् असन् प्रतिपक्षो यस्य इत्यसत्प्रतिपक्षं धूमवत्त्वम् । तथा हि साध्यविपरीत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org