________________
न्यायकोशः। नवीनाः पुनरेवं वर्णयन्ति । यत्संबन्धिसाध्याभावव्याप्यहेत्वन्तरस्य सत्त्वं पक्षे स सत्प्रतिपक्ष इत्यर्थः ( नील० २ पृ० २६ ) इति । सत्प्रतिपक्षशब्दस्य व्युत्पत्त्यादिकं प्रदर्शयन्ति साध्याभावसाधकहेत्वन्तरं प्रतिपक्षः तद्वान् सत्प्रतिपक्षः ( त० कौ० ) इति। २ (हेतुदोषः ) [क] पक्षे साध्यधीप्रतिबन्धकपरामर्शः । यथा जलमुष्णं स्पर्शत्वादित्यादौ नेदमुष्णमतेजस्त्वादित्यादिः ( न्या० म० २ पृ० २१ ) ( भा० ५० श्लो० ७८ )। [ख] साध्याभावव्याप्यवत्पक्षः साध्यवदन्यत्वव्याप्यवत्पक्षः पक्षनिष्ठः साध्याभावव्याप्यः पक्षनिष्ठः साध्यवर्द्रव्याप्यः ( दीधि० ) (दि० २ पृ० १६० ) । साध्यवदवृत्तिव्याप्यवत्पक्षः पक्षनिष्ठः साध्यववृत्तिव्याप्यः पक्षवृत्त्यभावप्रतियोगित्वव्याप्यवत्साध्यम् साध्यनिष्ठः पक्षवृत्त्यभावप्रतियोगित्वव्याप्यश्च । यथा ह्रदो वह्निमान् धूमात् इत्यादौ वह्नयभावव्याप्यवद्भदादिः सत्प्रतिपक्षः (ग० २)। एतेषामष्टानां सत्प्रतिपक्षस्वरूपाणामन्यतमत्वादिनानुगमकरणान्न सत्प्रतिपक्षविभागव्याघातः ( दि० २ हेत्वा० पृ० १६० ) इति । सत्यम्-सत्त्यशब्दो द्रष्टव्यः । । सदाचारः-[क] मन्वाद्युक्तदेशप्रचलिताचारः । अत्र व्युत्पत्तिविग्रहो
साधवः क्षीणदोषाश्च सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदाचार स उच्यते ॥ इति । मनुना चेत्थमुक्तम् सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते ॥ तस्मिन् देशे य आचारः पारंपर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥ ( मनु० अ० २ श्लो० १७-१८) इति । यथा वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ ( मनु० २।१२) इत्यादौ सदाचारशब्दस्यार्थः । स्वधर्मत्यागे हानिरुक्ता तस्मात्स्वधर्म न हि संत्यजेच्च न हापयेच्चापि तथात्मवंशम् । यः संत्यजेच्चापि निजं हि धर्म तस्मै प्रकुप्येत दिवाकरश्च॥ (वामनपु० अ० १४ ) इति । [ख] शिष्टाचारः । यथा आधुनिकशिष्टानामाचारः । तथा च तत्त्वचिन्तामणौ स्मृतिः यस्मिन्देशे य आचारः पारंपर्यक्रमागतः । श्रुतिस्मृत्यविरोधेन सदाचारः स उच्यते ॥ (चि० १ मङ्गलवा० पृ० ११२) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org