________________
९४८
न्यायकोशः। दूषकत्वम् ( चि० २ पृ० ९५ )। एतज्ज्ञानं च साक्षादनुमितिप्रतिबन्धकम् । वह्निव्याप्यधमवान् वह्नयभावव्याप्यपाषाणमयत्ववांश्च पर्वतः इति द्विविधपरामर्श सति एकस्मादप्यनुमितेरसंभवात् परस्परं प्रतिबन्धात् (त० कौ० २ पृ० १४ ) इति । अत्र च परस्परानुमितिप्रतिबन्ध एव फलम् तदेव दूषकताबीजम् इति बोध्यम् ( म० प्र० २ पृ० २७)। परस्पराभावव्याप्यवत्ताज्ञानात्परस्परानुमितिप्रतिबन्धः फलम् ( मु० २ पृ० १६० ) । अत्र च द्वयोरपि हेत्वोः परस्परसाध्याभावसाधकत्वात् मिथः सत्प्रतिपक्षत्वम् । रत्नकोषकारास्तु सत्प्रतिपक्षाभ्यां विरोधिपरामर्शद्वयेन प्रत्येकं स्वसाध्यानुमितिः संशयरूपा जन्यते । विरुद्धोभयज्ञानसामग्र्याः संशयजनकत्वात् । संशयद्वारास्य दूषकत्वम् इत्याहुः ( चि० २ पृ० ९६ )। एतन्मते तद्वत्ताबुद्धौ तदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धत्वं नास्तीत्यवधेयम् । [ख] अगृहीताप्रामाण्यकसाध्यव्याप्यवत्त्वेनोपस्थितिकालीनागृहीताप्रामाण्यकतदभावव्याप्यवत्त्वेनोपस्थितिविषयः (मु०.२ पृ० १६०)। अत्रत्यपदप्रयोजनमुच्यते। नित्यत्वव्याप्यशब्दत्ववत्ताज्ञानशून्यकालीनानित्यत्वव्याप्यकृतकत्वपरामर्शसत्त्वेपि सत्प्रतिपक्षव्यवहाराभावात् कालीनान्तं तदुपस्थितिविशेषणम् । गृहीताप्रामाण्यकनित्यत्वव्याप्यवत्ताज्ञानकालीनानित्यत्वव्याप्यकृतकत्वपरामर्शसत्त्वेपि तद्व्यवहाराभावात् अगृहीताप्रामाण्यक इति प्रथमोपस्थितिविशेषणम् । तादृशकालीनानित्यत्वव्याप्यवत्तापरामर्शसत्त्वेपि तत्राप्रामाण्यग्रहकाले तथा व्यवहाराभावात् अगृहीताप्रामाण्यक इति द्वितीयोपस्थितिविशेषणम् (दि० २ हेत्वा० पृ० १६०)। [ग] यस्य साध्याभावसाधकं हेत्वन्तरम् स सत्प्रतिपक्षः। यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत् शब्दः अनित्यः कार्यत्वात्पटवत् (त० सं० ) इति । अत्रानुमानद्वये श्रावणत्वं हेतुः सत्प्रतिपक्ष इति विज्ञेयम् । एतल्लक्षणार्थं प्राश्च आहुः। यत्संबन्धि यत्साध्यं तदभावव्याप्यहेत्वन्तरस्य ज्ञानं पक्षेस्ति स सत्प्रतिपक्षः इति । प्राचामयमाशयः । प्रकृतसाध्यव्याप्यत्वेन ज्ञायमानो यः प्रकृतहेतुः ततोन्यस्मिन्हेतौ साध्याभावव्याप्यत्वज्ञानदशायामेव तस्य सत्प्रतिपक्षता इति । एतत्सूचनाय हेत्वन्तर इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org