________________
न्यायकोशः।
९४७ स्थितिसमर्थपरामर्शकालीनसाध्यसिद्धिसमर्थपरामर्शविषयः (दीधि०२)। यथा पर्वतो वह्निमान्धमान्महानसवत् पर्वतो वह्नयभाववान् पाषाणमयत्वात् कुड्यवत् ( त० कौ० २ पृ० १४ ) इति । अयं च प्राचीनमतानुसारी व्यावहारिकः सत्प्रतिपक्ष इत्युच्यते । अत एव सन् विद्यमानः प्रतिपक्षो विरोधिव्याप्त्यादिमत्तया परामृश्यमानो हेतुः विरोधिपरामर्शो वा यस्य परामृश्यमानस्य हेतोरसौ सत्प्रतिपक्षः इति विग्रहमपि वर्णयन्ति । अतस्तदनुसारेणैव व्यवहारौपयिकं लक्षणमाह मणिकारः ( दीधि० २ पृ० २०८ )। अत एव इत्यस्यार्थस्तु प्रकृतपरामर्शस्य विरोधिपरामर्शस्यासत्त्वदशायां सत्प्रतिपक्षव्यवहारविरहादेव इति । सत्प्रतिपक्षत्वं च साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्ध कार्यकलिङ्गत्वम् । बलं च व्याप्तिपक्षधर्मते। अथ वा विरोधिबोधकान्यगमकतौपयिकरूपसंपत्तिमत्तया ज्ञायमानेन प्रतिरुद्धकार्यकत्वम् (चि० २ पृ० ९४-९५)। अत्र उपस्थितौ समानबलत्वं चानाप्तोक्तत्वेनानिश्चितत्वम् प्रकृतसाध्यानुमापकबलशालित्वे सति प्रकृतसाध्याभावानुमापकबलशालिहेत्वन्तरकत्वं वा इति विज्ञेयम् । साध्यविरोधीत्यादेरर्थस्तु साध्यस्य साध्यसिद्धः विरोधिन्याः पक्षो न साध्यवान् इत्याद्युपस्थितेः यद्वा साध्यविरोधी साध्यवत्ताज्ञानप्रतिबन्धकज्ञानविषयः बाधः साध्याभावादिमत्पक्षादिः तदुपस्थितेर्वा जननयोग्यया समानया बलोपस्थित्या तथाविधव्याप्त्यादिबुद्ध्या प्रतिरुद्ध कार्य यस्य तादृशलिङ्गत्वम् इति । अत्र समानबलत्वं चागृहीताप्रामाण्यकसाध्यसिद्ध्यौपयिकपरामर्शकालीनत्वम् ( दीधि० २ हेत्वा० पृ० २०८-२०९)। निष्कृष्टार्थस्तु प्रकृतानुमितिविरोध्यनुमितियोग्यपरामर्शप्रयुक्ताग्रिमक्षणावच्छिन्नानुत्पादप्रतियोगिप्रकृतानुमितिजनकतावच्छेदकीभूतपरामर्शीयविषयताविशेषविशिष्टत्वम् (ग० व्यावहारि० सत्प्र० निर० पृ० ७ ) इति। अत्रेदमवधेयम् । पर्वतो वह्निमान धूमात् इत्यादिसद्धेतुस्थलेपि वह्निव्याप्यधूमवान् वह्नयभावव्याप्यपाषाणमयत्ववांश्च पर्वतः इति परामर्शद्वयसंवलनदशायां प्रकृतोयं धूमो हेतुः सत्प्रतिपक्षितः इति व्यवह्रियत इत्यनुभवमनुरुद्ध्येदमुक्तम् । एतस्य दूषकताबीजं च समानबलविरोधिसामग्रीप्रतिबन्धेन निर्णयाजनकत्वम् । एकत्र व्याप्तिभङ्गज्ञानद्वारा वास्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org