________________
न्यायकोशः। वदन्ति । अत्रोक्तं भर्तृहरिणा आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते। अन्तर्भावाच तेनासौ कर्मणा न सकर्मकः ॥ ( वाक्यप० ) इति । ४ अर्थक्रियाकारित्वम् । यथा यत्सत् तत्क्षणिकम् इत्यादौ इति बौद्धा
आहुः । ५ प्रामाणिकत्वम् इत्यन्य आहुः। सत्त्यकारः-सत्त्यस्य कारः ( विसार इति प्र० ) ( मिताक्षरा अ० २
श्लो० ६१)। सत्त्यत्वम्-यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् । तस्यैवार्थस्य
सत्त्यत्वमाहुस्नय्यन्तवेदिनः ॥ (सर्व० सं० पृ० ३०९ पाणि० )। सत्त्यम्-१ प्रमितिविषयः । यथा घटपटादि सर्व जगत् सत्यम् । यथा
वा वेदान्तिमते भूतपञ्चकम् । अत्रार्थे व्युत्पत्तिः सन्ति पृथिव्यप्तेजांसि स त्यौ वाय्वाकाशौ च इति । तथा च श्रुतिः सच्च त्यच्च भूतपञ्चकम् तं च सत्त्यमित्याचक्षते ( बृह० उ० २।३।१-३ ) ( तैत्ति० उ० २।६।१ ) इति । २ यथार्थकथनम् । यथा सत्त्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्त्यमप्रियम् ( मनु० ४।१३८ ) इत्यादौ सत्त्यशब्दस्यार्थः । तदुक्तं ब्रह्मपुराणे यथार्थकथनं यच्च सर्वलोकसुखप्रदम् । तत्सत्त्यमिति विज्ञेयमसत्त्यं तद्विपर्ययः ॥ इति। ३ नान्दीमुखश्राद्धीयो देवताविशेषः । अत्रोक्तम् इष्टिश्राद्धे ऋतुर्दक्षः सत्त्यो नान्दीमुखे वसुः ( श्राद्धत० ) इति । ४ कृतयुगम् । अत्रेदमधिकं ज्ञेयम् संधिसंध्यंशाभ्यां सहित सत्त्ययुगमानं तु दैवमानेन ४८०० वर्षाः मनुष्यमानेन १७२८००० वर्षाः इति । ५ शपथः । शपथरूपसत्त्यस्यापालने दोषो यथा कृत्वा शपथरूपं. यः सत्त्यं हन्ति न पालयन् । स कृतघ्नः कालसूत्रे वसेदेव चतुर्युगम् ॥ ( ब्रह्मवै० पु० प्र० अ० ३८ ) इति । ६ यथार्थज्ञानम् । यथा सत्त्यरजते इदं रजतम् इति ज्ञानम् । अत्र याथार्थ्यं च तदभाववति तत्प्रकारकत्वाभावः । तदेव ज्ञाने सत्त्यत्वम् इति ज्ञेयम् । ७ त्रिकालाबाध्यम् । यथा सत्त्यं ज्ञानमनन्तं ब्रह्म (तै० उप० २।१) इत्यादौ परमात्मा सत्त्यः इति वेदान्तिन आहुः। ८ तपोलोकादूर्ध्वस्थो लोकविशेषः इति पौराणिका आहुः । अत्रोच्यते षड्गुणेन तपोलोकात्सत्त्य११९ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org