________________
न्यायकोशः।
९४३ सकलम्-१ सर्वशब्दवदस्यार्थीनुसंधेयः । २ कलासहितः सकलः इति
शब्दव्युत्पत्तिज्ञा आहुः। सकला-यां तिथिं समनुप्राप्य उदयं याति भास्करः । सा तिथिः सकला
ज्ञेया नानदानजपादिषु ॥ यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।
सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु (पु० चि० पृ० ४१ )। सखण्डोपांधिः- ( उपाधिः सामान्यम् ) बहुपदार्थघटितो धर्मः। यथा
शिष्टत्वेन्द्रियत्वविषयत्वादिरूपः प्रमेयत्वकुण्डलित्वादिरूपश्च धर्मः सखण्डोपाधिः ( सि० च० १ पृ० ३) (ल० व०) (त० कौ० पृ० २०)। एतच्चोपलक्षणम् भावत्वाभावत्वशरीरत्वकारणत्वाकाशत्वकालत्वदिक्त्वादेः। सखण्डोपाधिश्चायं क्लुप्तपदार्थेन्तर्भवति । न त्वखण्डोपाधिवत्
सप्तपदार्थातिरिक्तः पदार्थ इति विज्ञेयम् (सि० च० १ पृ० ३)। सङ्ग:-१ कर्तृत्वाभिमानः । यथा सङ्गं त्यक्त्वा फलानि च इत्यादी सङ्ग
शब्दस्यार्थः ( ल० म०) । २ अनुरागः। ३ संबन्धः । ४ परस्पर
प्राप्तिमात्रं सङ्गः ( सर्व० सं०.पृ० ८१ आहे . )। सजातीयम्-१ तद्वृत्तियत्किंचिद्धर्मवत् । यथा घटत्वेन वृत्तित्वाभावो
घटत्वावच्छिन्नवह्नयभावसजातीयः (ग० चतु० मिश्र० )। अत्र च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकत्वेन साजात्यं बोध्यम् ( दीधि०२ व्याप्तिनिरू०)। विस्तरश्च सादृश्यशब्दव्याख्यानावसरे व्यक्तीभविष्यति। २ कचित् लक्ष्यतावच्छेदकसाक्षाब्यापकजात्यवच्छिन्नम् । यथा गोसजातीयोश्वः । अत्र साक्षाब्यापकत्वं च तद्व्यापकाव्यापकत्वे सति तद्व्यापकत्वम् (प्र० च० )। तथा हि गोर्लक्षणस्य सानादिमत्त्वस्य सजातीयव्यावृत्तिप्रयोजनकत्वे गोत्वं लक्षणलक्ष्यतावच्छेदकम् । तस्य साक्षाध्यापकं पशुत्वम् । तदवच्छिन्नोवो भवति (प्र० च० पृ० ३ ) इति। सत्-१ सत्यं वस्तु । यथा नैयायिकमते घटपटादि सर्वं जगत्सत् । अत्र
सत्ताविशिष्टं सत् इत्यर्थो बोध्यः । न्यायमते घटादीनामुत्पत्तिनाशवत्त्वेपि मिथ्यात्वाभावेन कालसंबन्धित्वरूपं सत्यत्वं संगच्छते इति विज्ञेयम् । मायावादिमते तु परं ब्रह्मैव सत् । तन्मते तत्र सत्यत्वं च त्रिकाला
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org