________________
९४२
न्यायकोशः। सकर्मकः । अथ वा स्वार्थफलव्यधिकरणव्यापारवाची स्वार्थव्यापारव्यधिकरणफलवाची वा धातुः सकर्मकः इत्याहुः ( वै० सा० )। स्वार्थफलेत्यत्र स्वशब्देन धातुर्ग्राह्यः । व्यधिकरणत्वं च कर्तृभिन्नतदधिकरणावृत्तित्वम् । तथा च ग्रामं गच्छति इत्यादी संयोगरूपं फलं प्रामे तदनुकूलव्यापारस्तु कर्तरि चैत्रे तिष्ठति इति फलव्यापारयोर्वैयधिकरण्यं संगच्छते इति । अत्रोक्तम् फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ इति । स्वार्थव्यापारेत्यत्र व्यधिकरणत्वं च तदधिकरणावृत्तित्वम् (वै० सा० द०)। व्यापाराधिकरणमात्रावृत्तिफलवाचकत्वम् इति परमार्थः । तथा हि पच्यादेापाराधिकरणावृत्तिविक्लित्तिरूपफलस्य बोधकतया सकर्मकत्वम् । कर्तृकर्मोभयनिष्ठफलबोधकस्यापि गम्याापाराधिकरणमात्रावृत्तिफलबोधकतया सकर्मकत्वम् । भूप्रभृतीनां तु व्यापाराधिकरणमात्रवृत्तिफलबोधकतया न सकर्मकत्वम् । फलस्य सत्तायाः तत्संबन्धरूपव्यापारस्य चैकस्मिन्नेव धर्मिणि घटोस्तीत्यत्र घटादौ सत्त्वात् ( वाच० )। अत्रोक्तं भर्तृहरिणा आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते। अन्तर्भावाञ्च तेनासौ कर्मणा न सकर्मकः ॥ इति वाक्यपदीये । आत्मानं जानाति इच्छतीत्यादौ चेत्थं सकर्मकत्वव्यवस्था । द्वावात्मानौ शरीरात्मा अन्तरात्मा चेति । तत्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवतीति कर्मवत्कर्मणा तुल्यक्रियः (पाणि० ३।११८७ ) इति सूत्रीयभाष्योक्तरीत्या भिन्नाधिकरणनिष्ठतामादाय सकर्मकत्वमवधेयम् (वै० सा० पृ० ४३ )। अत्राधिकं तु धातुशब्दव्याख्यानावसरे संपादितं तत्तत्र दृश्यम् । [घ] प्राञ्चो वैयाकरणास्तु व्याकरणशास्त्रीयकर्मसंज्ञकार्यान्वय्यर्थको धातुः सकर्मकः इत्याहुः । तेन अध्यासिता भूमयः इत्यादिप्रयोगः सिद्ध्यति इति विज्ञेयम् ( ल० म० धा० पृ० ५)। [ङ] मीमांसकास्तु प्रत्ययार्थव्यापारव्यधिकरणफलवाचको धातुः
सकर्मकः इत्याहुः । सकल:-मलमायाकर्मात्मकबन्धत्रयसहितः सकलः ( सर्व० सं० पृ०
१८३ शै० )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org