________________
६२
न्यायकोशः। रोधित्वम् । ज्ञानादिकार्ये च यस्य यत्पदार्थान्तरज्ञानाद्यनुरोधस्तस्य तदपेक्षा । अत एव तर्कग्रन्थे जंगदीशेन स्वापेक्षापादकः प्रसङ्ग आत्माश्रयः । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ग्राह्या इत्याद्युक्तम् । अधिकं तु अन्योन्याश्रयशब्दव्याख्याने द्रष्टव्यम्। ४ अपेक्षाबुद्धिवदस्यार्थीनुसंधेयः। ५ अनुरोधः । यथा सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिरित्यादौ इति धर्मज्ञाः । ६ स्पृहा । यथा समुपोढेषु कामेषु निरपेक्षः परिव्रजेदित्यादौ
( मनु० ६।४१ ) इति काव्यज्ञाः। .. अपेक्षाबुद्धिः- ( बुद्धिः ) [क] नानैकत्वसमूहालम्बनरूपा बुद्धिः
( वै० उ० ४।१।११) । अपेक्षाबुद्धिः क्षणत्रयावस्थायिनी इति सिद्धान्तः। द्वित्वादिकं त्वपेक्षाबुद्धिजन्यम् ( वै० उ० ४।१।११ )। अपेक्षाबुद्धेरिच्छादिजनकत्वं नास्तीत्यवश्यं मन्तव्यम् । अन्यथा तेनैव तस्या नाशात्क्षणत्रयावस्थायित्वमेव न स्यादिति केचित् (भवा० २.९०)। विस्तरस्तु अन्यत्र (वै० उ० ७॥२८ ) द्रष्टव्यः । अत्रेदं बोध्यम्द्वित्वादिकं परार्धान्तमपेक्षात्मकबुद्ध्या जन्यते तन्नाशेन नश्यति च । अपेक्षाबुद्धेर्द्वित्वादेश्वोत्पत्तिनाशादिप्रपञ्चस्तु द्वित्वशब्दव्याख्यानावसरे व्यक्तीभविष्यति । अत्रेदं विचार्यते यद्यपि द्वित्वादिसमवायः प्रत्येक घटादावस्ति तथापि एको द्वौ इति ज्ञानाभावात् एको न द्वौ इति ज्ञानाच्च द्वित्वादीनां पर्याप्तिस्वरूपः कश्चित्संबन्धोनेकाश्रयोङ्गीक्रियते । पर्याप्तिसंबन्धेन च प्रत्येकं घटादो न द्वित्वादि । तादृशसंबन्धश्चापेक्षाबुद्धिसापेक्षः । तेन तत्सत्त्वे तथा ज्ञानं तदसत्त्वे न तथा ज्ञानम् इति ( वाच० )। वस्तुतस्तु द्वित्वादिकं तु न संख्या किं त्वपेक्षाबुद्धिविशेषविषयत्वमेव । तच्चापेक्षाबुद्ध्यधीनमिति न कोपि दोष इति तु वयम् । [ख] अनेकैकत्वबुद्धिः ( भा० प० गु० श्लो० ११०)। अनेकानि यान्येकत्वानि तेषां बुद्धिः । सा च अयमेकः अयमेकः इत्याकारिका बुद्धिः (मु० गु० २०४ )। यथा सेनावनादिबुद्धिः ( त० व०)। अत्राश्वादिसमूहः सेना। वृक्षसमूहो वनम्। तथा च सेना वनम् इत्यादिबुद्धिविशेषविषयत्वं सेनात्यवनत्वादि ( म० प्र० ४।२६ )। [ग] अपेक्षाबुद्धिर्नाम विनाशकविनाशप्रतियोगिनी बुद्धिः ( सर्व० सं० पृ० २२४ औलू०) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org