________________
न्यायकोशः।
अपूर्वविधिः-(विधिः)[क] अप्राप्तप्रापको विधिः। स च यागादीनामिष्टसाधनत्वस्य कृतिसाध्यत्वस्य वा बोधको लिङादिशब्दः । यथा स्वर्गकामो यजेतेत्यादौ ( सि० च० ३३ ) ( वाच० ) । अप्राप्तप्रापकत्वं च प्राथमिकप्रवृत्तिजनकप्रतीतिजनकत्वम् प्रमाणान्तरजन्यप्रतीत्यविषयविषयकप्रतीतिजनकत्वं वा । इदं यजनं तु केनापि प्रमाणान्तरेण न बोधितम् ( सि० च० ३३ )। अत्रेदं बोध्यम्-लिङा यागादाविष्टसाधनत्वं बोध्यत इति नैयायिकाः। कार्यत्वेनापूर्वं बोध्यत इति प्राभाकरा मन्यन्ते ( वाच०)। [ख] प्रमाणान्तरेणाप्राप्तप्रापको लिङादिपदवेदनीयः शब्दविशेषः । यथा स्वर्गकामो यजेतेति लिङादियुक्तं वाक्यम् । अपूर्वविधिश्चतुर्विधः। कर्मविधिः गुणविधिः विनियोगविधिः प्रयोगविधिश्वेति । तत्राग्निहोत्रं जुहोतीत्यादौ यागरूपे कर्मणि इष्टसाधनतायाः कृतिसाध्यतायाः भावनाया वा मतभेदेन बोधनात् कर्मविधित्वम् । द्रव्यदेवतादिविधायकविधिर्गुणविधिः। यथा दध्ना जुहोतीत्यादिवाक्यम् । प्राप्तस्याग्निहोत्रस्यानुवादेनाप्राप्तगुणरूपद्रव्यादेः ( दध्यादेः) विधानात् । विनियोजनाद्विनियोगविधिः । यथा ऐन्या गार्हपत्यमुपतिष्ठते इत्यादि । अत्र ऐन्या ऋचः गार्हपत्योपस्थाने विनियोजनात् विनियोगविधिः । एवं कृत्वा एवं कुर्यात् इत्यादिप्रयोगज्ञापको विधिः प्रयोगविधिः। यथा अधीत्य मायादित्यादि उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोतीत्यादि च । अयं च विशिष्टविधिरिति भेदः ( वाच०)। [ग] यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधिः सोपूर्वविधिः । यदाहुः-विधिरत्यन्तमप्राप्ते. नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति
गीयते ॥ (मी० न्या० पृ० ४६ )। विस्तरस्तु विधिशब्दे दृश्यः । अपेक्षा-१ आकाङ्क्षा । सा च शाब्दबोधप्रयोजनिका । २ असामर्थ्यम् ।
अस्यामपेक्षायां च प्रायशो वृत्तिनेष्यते । यथा प्रवीरं पुत्रकाम्यति ऋद्धस्य राजमातङ्ग इत्यादी प्रत्ययसमासौ न स्तः । तत्रोक्तम्-सापेक्षे प्रत्ययो न स्यात्समासो वा कथंचन । सापेक्षं तद्विजानीयादसमस्तविशेषणम् ॥ इति । ३ प्रयोजकत्वम् । तच्च ज्ञाने स्थिती उत्पत्तौ वा इतरस्यानु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org