________________
न्यायकोशः। (दि. १)। [ग] परस्परानन्वितार्थकपदसमूहः। यथा शब्दो घटः पटो नित्यमनित्यं च प्रमेयत्वात् इत्यादि (नील० पृ० ४५ )। [घ] यादृशशाब्दबोधत्वावच्छेदेनापार्थत्वं तादृशबुद्ध्यर्थं प्रयुक्तः पद
समूहः ( श० प्र०)। . अपि-(अव्ययम् ) १ संभावना । २ संदेहः। ३ निन्दा । ४ प्रश्नः ।
५ समुच्चयः । ६ अल्पपदार्थः। ७ कामचारानुज्ञा । ८ अवधारणम् ।
९ पुनरर्थः ( वाच०)। अपूर्वम्-[क] यागादिकर्मणः काचिदुत्तरावस्था फलैकनाश्या (ल.
म०)। [ख ] यागादिजन्यः स्वर्गादिजनकः कश्चन गुणविशेषः । तं गुणविशेषमपूर्वमिति मीमांसका वदन्ति । प्रारब्धकर्मेति वेदान्तिनः । धर्माधर्माविति नैयायिकाः। अदृष्टमिति वैशेषिकाः। पुण्यपापे इति पौराणिकाः । अपूर्व दर्शपूर्णमासयोर्द्विविधम् । परमापूर्व कलिकापूर्व चेति (दि० गु० २३५)। प्रकारान्तरेणाप्यपूर्व मीमांसकमते त्रिविधम् । प्रधानापूर्वम् अङ्गापूर्व कलिकापूर्व - चेति । तत्र दर्शपूर्णमासाद्यपूर्व प्रधानापूर्वम् । तदेव परमापूर्वम् । प्रयाजाद्यङ्गजन्यापूर्वमङ्गापूर्वम् । तदवान्तरक्रियाकूटजन्यमपूर्व कलिकापूर्व । तच्च व्रीहिप्रोक्षणाभ्युक्षणादिजन्यं द्रव्यनिष्ठमिति मीमांसकाः । तज्जन्यसंस्कारविशेष एव कलिकापूर्वतया व्यवह्रियते स चात्मनिष्ठ इति नैयायिकाः। कलिकापूर्व च परमापूर्व जनयित्वा नश्यति । अङ्गापूर्वैस्तु परमापूर्वे विशेष आधीयत इति भेदः। तथा चाङ्गापूर्वसहितं परमापूर्वं विशिष्टफलं जनयति । तद्विहीनं तु स्वल्पं फलम् । अत्रेदमवधेयम्-परमापूर्वं च नित्यकर्मणि पण्डापूर्वत्वेन मीसांसकै
य॑वह्रियते । संध्यावन्दनस्य किञ्चित्फलाजनकत्वात् । नैयायिकास्तु अर्थवादोपस्थापितब्रह्मलोकादिप्राप्तिरूपफलजननान्न तत्रापूर्वस्य फलाजनकत्वेन पण्डत्वमित्याहुः ( वाच०)। विस्तरस्तु चिन्तामणिशब्दखण्डे कुसुमाञ्जलिप्रथमस्तबके चावलोकनीयः । अत्रेदं बोध्यम्-परमापूर्व वाच्यम् । कलिकापूर्वाणि तु कल्प्यानीति मीमांसकसिद्धान्त इति ( त०प्र०ख०४ पृ० ११४)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org