________________
न्यायकोशः ।
पृ० ३८५ ) । [ग] अधिकरणे प्रतियोग्यारोप हेतुकनिषेधधीविषयः अभावः । संसर्गाभावस्त्रिविधः प्रागभावः ध्वंसः अत्यन्ताभावश्चेति ( भा० प० श्लो० १२-१३ ) । केचित्तु उत्पादविनाशशाली सामयिक - नामा चतुर्थीयमभाव इत्याहु: ( मु० १ पृ० ४३ ) (वै० वि० ९।१।५ ) । अयं भावः । यत्र भूतले पूर्वमपसारितं घटादिकं पुनरानीतं च तत्रायमभावः इति । नैयायिकास्तु तत्र घटकालस्याभावसंबन्धाघटकत्वात् घटसत्त्वकाले न घटात्यन्ताभावबुद्धिः । तथा च तत्रात्यन्ताभाव एव प्रतीयते । कालविशेषविशिष्टस्वरूपस्य ( घटानधिकरणकालीनस्वरूपस्य ) संसर्गत्वापगमादेव घटवति घटो नास्ति इति प्रतीत्यभावोपपत्तौ चतुर्थसंसर्गाभावे मानाभावः ( दि० पृ० ४३ ) इति वदन्ति । संसर्पः - अंहस्पतिशब्दे दृश्यम् ।
संसारः - १ [क] दुःखादीनां कार्यकारणभावः । स चानादिः । पूर्वापरकालानियमात् । दुःखादयो मिथ्याज्ञानपर्यवसाना अविच्छेदेन वर्तमानाः संसारः (न्या० वा० १ पृ० २६ ) इति । मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेन वर्तमानाः संसारशब्दार्थः ( सर्व० पृ० २४६ अक्ष० ) । अयं भावः । धाता यथापूर्वमकल्पयत् इति वेदे खण्डप्रलयस्य प्रसिद्धत्वेन संसारस्य प्रवाहानादित्वं प्रकल्पनीयम् (त० प्र० ४ पृ० १८ ) इति । [ ख ] जन्ममरणप्रबन्धः प्रेत्यभावापर - नामा (वै० उ० ६।२।१५ ) । यथा संसारसागरनिमग्नमनन्तदीनमुद्धर्तुमर्हसि हरे पुरुषोत्तमोसि इत्यादी संसारशब्दस्यार्थः । जन्ममरणप्रवाहः प्रेत्यभावः । स एव पुंसां बन्धलक्षणः । तस्य च अजरंजरी - भावः इति नामान्तरमागमे (वै० वि० ६ । २ । १५ ) | संसारित्वं च क्रमेण दुःखोत्पादः ( न्या० ली० गु० मोक्षनि० पृ० ४२ ) । यथा शरीराभिमानिनो जीवस्य संसारित्वम् । सांसारिकं सुखं तु धर्माख्धI देहावच्छेद्यं सुखम् ( प० च० ) । [ग] वल्लभीया मायावादिनो वेदान्तिनश्च मिथ्याज्ञानजन्यसंस्काररूपवासना देहारम्भकादृष्टविशेषो वा स्वादृष्टोपनिबद्धदेह परिग्रहो वा संसार इत्याहुः । अत्र संसारगतिप्रकारस्तु ११८ न्या० कोο
Jain Education International
For Personal & Private Use Only
९३७
www.jainelibrary.org