________________
न्यायकोशः। संसर्गाभावत्वं च संसर्गारोपजन्यप्रतीतिविषयाभावत्वमेव अखण्डोपाधि वेत्याहुः (त० प्र० ४ पृ० ५७ ) । संसर्गाभावग्रहे. प्रतियोगियोग्यतैव तत्रम् । यत्तु संसर्गाभावग्रहे प्रतियोग्यधिकरणोभययोग्यत्वं तत्रम् इति कैश्विदुक्तम् । तन्न समीचीनम् । आकाशे रूपात्यन्ताभावप्रत्यक्षस्य निवृत्तः कोलाहलः इति ध्वंसप्रत्यक्षस्य चानुपपत्त्या सगृहे अधिकरणयोग्यतापेक्षा नास्ति ( सर्व० पृ० २३१ औलू० ) (वै० उ० ९।१।८ ) ( वै० वि० ९।११८ पृ० ३८१ )। अत एव त्वक्संयुक्तकालविशेषणतया वायुस्पर्शनाशप्रत्यक्षं पक्षधरमिरैः स्वीकृतम् । [ख] अन्योन्याभावभिन्नः अभावः (त० प्र०) (मु० १ पृ०४२)। यथा नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः (वै० ९।१।१०) इति सूत्रे प्रतिपाद्यः अभावः । ध्वंसप्रागभावयोः किंचित्संबन्धावच्छिन्नप्रतियोगिताकत्वानङ्गीकारे तु इदं लक्षणान्तरम् इति विज्ञेयम् । लक्षणस्यायमर्थः । गेहे घटस्य यः संसर्गः संयोगस्तस्य प्रतिषेधः । स च यदि कदाचिदपि न घटस्तदात्यन्ताभाव एव भविष्यतः प्रागभावः भूतस्य प्रध्वंसाभावः इति वैशेषिका आहुः ( वै० उ० ९।१।१० )। अथ वा सतः पूर्वं तत्र वर्तमानस्य घटस्यैव गेहसंसर्गप्रतिषेधः गेहे संसर्गाभावः । तद्विशेषोत्यन्ताभावः नास्ति गेहे घटः इति प्रत्यक्षविषयः इति समुदितसूत्रार्थः इति नैयायिका आहुः ( वै० वि० ९।१।१० पृ० ३८४ )। अत्रेदं बोध्यम् । संसर्गाभावश्च नबादिनिपातेन धातुना च बोध्यते । तत्र निपातेन प्रातिपादिकार्थाभावस्य बोधने अनुयोगिनि सप्तम्यपेक्षा । यथा गेहे घटो नास्ति इत्यादौ । विभक्त्यर्थसंसर्गाभावस्य धात्वर्थादौ बोधने तु नायं नियमः। यथा गगनं न पश्यति न कलशं भक्षयेत् इत्यादौ । तत्र दर्शने गगनकर्मत्वस्य कलञ्जभक्षणे च बलवदनिष्टासाधनत्वस्य नवा संसर्गाभावस्य बोधनात् न तत्र सप्तम्यपेक्षा इति। प्रातिपदिकार्थस्यात्यन्ताभावबोधस्थलेनुयोगिनि सप्तम्यपेक्षा । कचित् नगर्थस्य सुबर्थाभावस्य अस्ति क्रियाविशेष्यतावच्छेदकतया भानम् । यथा नास्ति गेहे घटः इत्यादौ घटस्य गृहवृत्तित्वाभावो बोध्यते इत्याहुः (वै० वि० ९।१।१०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org