________________
न्यायकोशः।
९३५ न संसर्ग व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः ॥ ( मनु० अ० ११ श्लो० ४७ ) इति । विष्णुः यश्च येन पापात्मना सह संसृज्येत स तस्यैव प्रायश्चित्तं कुर्यात् इति । एवं गौतमोपि । के ते संसर्गप्रकारा इत्याहतुर्मनुबृहस्पती एकशय्यासनं पतिर्भाण्डपक्कान्नमिश्रणम् । याजनाध्यापनं योनिस्तथा च सहभोजनम् ॥ नवधा संकरः प्रोक्तो न कर्तव्योधमैः सह ( मनु० अ० ११ श्लो० १८० ) इति कूर्मपुराणे व्यासः महापातकिनस्त्वेते यश्च तैः सह संवसेत् । संवत्सरं तु पतितैः संसर्ग कुरुते तु यः ॥ यानशय्यासनैनित्यं जानन्वै पतितो भवेत् इति । अत्रेदं बोध्यम् । महापातकिसंसर्गस्यैव कलौ पापहेतुत्वम् नान्यपापिसंसर्गस्य । यथोक्तं पराशरेण कृते संभाषणात्पापं त्रेतायां चैव स्पर्शनात् । द्वापरे चान्नमादाय कलौ पतति कर्मणा ॥ इति । अत्र सर्वस्मृतिशास्त्राकलनाद्वयं ब्रूमः । कलावपि महापातकिसंसर्गस्येवान्यपापिसंसर्गस्यापि पापहेतुत्वमस्त्येव । परंतु तत्पापं स्वल्पमेव। तन्निर्णेजनाय तदनुगुणं प्रायश्चित्तं
कार्यमेव इति। संसर्गमर्यादा-[क] समभिव्याहारज्ञानकार्यतावच्छेदककोटिप्रविष्टसंब
ग्धता ( कृष्णं० )। यथा शाब्दबोधे चैकपदार्थ अपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते ( ग० व्यु० का० १ ) इत्यादौ संसर्गमर्यादाशब्दस्यार्थः । [ख] आकाङ्क्षादिसहकारिसहकृता पदशक्तिः इति
वैयाकरणादयः आहुः ( काव्यप्र० कमला० उल्ला० २ )। संसर्गाभावा-( अभावः )[क] तादात्म्यातिरिक्तसंसर्गारोपजन्यप्रतीतिविषयाभावः ( त० प्र० ख० ४ पृ० ५६)। अत्रार्थे संसर्गाभावपदस्य व्युत्पत्तिः संसर्गेण तादात्म्यातिरिक्तेन संबन्धेन अवच्छिन्नप्रतियोगिताकः अभावः इति । मध्यमपदलोपी समासः शाकपार्थिववज्ज्ञातव्यः । अयं भावः । ध्वंसप्रागभावयोरपि किंचित्संबन्धावच्छिन्नप्रतियोगिताकत्वमस्ति इत्यभिप्रायेणेयं व्युत्पत्तिः । संसर्गाभावस्य लक्षणं च तादात्म्यसंबन्धानवच्छिन्नप्रतियोगिताकाभावत्वम् (ग० २ सिद्धान्त० )। अथ वा अन्योन्याभावभिन्नाभावत्वम् (मु० १ पृ० ४२)। अन्ये तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org