________________
न्यायकोशः।
९२९ क्वचिदनुपलभ्यमाने संशयः । किं सन्नोपलभ्यत उतासत् इति संशयो भवति । विशेषापेक्षा पूर्ववत् । पूर्वः समानोनेकश्च धर्मो ज्ञेयस्थः । उपलब्ध्यनुपलब्धी पुनर्ज्ञातस्थे । एतावता विशेषेण पुनर्वचनम् । समानधर्माधिगमात् समानधर्मोपपत्तेविशेषस्मृत्यपेक्षो विमर्श इति । स्थानवतां लक्षणवचनमिति समानम् (वात्स्या० १११।२३ )। वार्तिककृतस्तु समानो हि धर्मः यो विवक्षिततज्जातीयवृत्तित्वे सति अन्यजातीयवृत्तिः सः । अयं साधारणो धर्म उपलभ्यमानः संशयहेतुः ( न्या० वा० १।२३ पृ० ९३ ) इत्याहुः । अत्रायं विशेषः । समानधर्मवत्तया धर्मिज्ञानस्यान्वयव्यतिरेकाभ्यां संशयहेतुत्वमवधार्यते (न्या० म० ४ पृ० ३४ )। तदर्थश्च तत्कोटिसाधारणधर्मवत्तया धर्मिज्ञानस्य तत्कोटिसंशयहेतुत्वमवधार्यते । अन्वयव्यतिरेकेति तुरगादौ वेगेन गच्छतोनेकवृक्षेन्द्रियसंनिकर्षेपि यस्यैव धर्मिणो ज्ञानं तत्रैव पनसत्वादिसंशयः नान्यत्र इति धर्मिनियमार्थम् । धर्मिज्ञानस्योत्कटकोटिकसंशयहेतुत्वमिति भावः । (त० प्र० ख० ४ पृ० १३०-१३१)। अनेकप्रत्ययहेतुधर्मोनेकधर्मः । यत एव प्रत्ययो भवति इदमेकमनेकम् इति । तत्रैकप्रत्ययहेतुरभेदः । अनेकप्रत्ययहेतुधर्मो विशेषः । यथा शब्दस्य विभागजत्वम् । सामान्यविशेषसमवायेभ्यः शब्दस्य सदादिना विशेषेण निर्भक्तस्य तस्मिंस्तु द्रव्यं गुणः कर्म वा इति विभागजत्वात्संशय इत्याहुः (न्या० वा० १।२३ पृ० ९५)। विप्रतिपत्तिजन्यसंशयस्योदाहरणानन्तरं यथा एको ब्रूते शब्दो नित्यः इति। अपरः अनित्यः इति । तयोर्विप्रतिपत्त्या मध्यस्थस्य पुंसो विशेषमपश्यतो भवति संशयः किमयं शब्दः अनित्य उत. नित्यः इति ( त० भा० पृ० ४२)। संशयस्य निर्णायकाभावसहकृताः साधारणधर्मासाधारणधर्मविप्रतिपत्त्युपलब्ध्यनुपलब्धयः पञ्च कारणानि इति न्यायभाष्यकृतो वात्स्यायनाः पक्षिलस्वामिनः आहुः ( त० व० परि० १०)। तद्यथा ( १ ) स्थाणुपुरुषयोः साधारणधर्ममूर्ध्वतादिलक्षणं पुरोवर्तिन्युपलभ्य स्थाणुपुरुषौ स्मृत्वा विशेषजिज्ञासायां स्थाणुत्वनिश्चायकं वक्रकोटरादिकं पुरुषत्वनिश्चायकं शिरःपाण्यादिकं चानुपलभमानस्य दोलायमानं संशयज्ञानमुत्पद्यते किमयं स्थाणुर्वा पुरुषो वा इति । (२) शब्दे ११७ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org