________________
न्यायकोशः ।
प्रकारताविरूपिता विशेष्यता एकैव । समुचये तु विशेष्यताद्वयम् इति संशयसमुच्चययोर्भेद इति च विज्ञेयम् । यद्वा अवच्छेद्यावच्छेदकभावापन्नविषयतावत्त्वम् (ग० सत्प्र० ) । संशयीयविशेष्यतयोरवच्छेद्यावच्छेदकभावस्तु समुच्चयज्ञानव्यावर्तनायावश्यं स्वीकर्तव्य इति सूक्ष्मदर्शिभिर्विज्ञेयम् । अत्र संशयलक्षणं च सूत्रकारैरुक्तम् समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ( गौ० १।१।२३ ) ( ता० र० श्लो० ५६ ) । तत्र ( १ ) समानधर्मोपपत्तेविशेषापेक्षो विमर्शः संशयः इति । स्थाणुपुरुषयोः समानं धर्ममारोहपरिणाहौ पश्यन् पूर्वदृष्टं च तयोर्विशेषं बुभुत्समानः किंस्वित् इत्यन्यतरन्नावधारयति । तदनवधारणं ज्ञानं ( विमर्श: ) संशयः । वस्तुस्वरूपानवधारणात्मकः प्रत्यय इत्यर्थः ( न्या० वा० १ पृ० १३ ) । समानमनयोर्धर्ममुपलभे विशेषमन्यतरस्य नोपलभे इत्येषा बुद्धिरपेक्षा संशयस्य प्रवर्तिका वर्तते । तेन विशेषापेक्षो विमर्शः संशयः । ( २ ) अनेकधर्मोपपत्तेरिति । समानजातीयमसमानजातीयं चानेकम् । तस्यानेकस्य धर्मोपपत्तेर्विशेषस्योभयथा दृष्टत्वात् । | समानजातीयेभ्योसमानजातीयेभ्यश्चार्था विशिष्यते । गन्धवत्त्वात्पृथिव्यवादिभ्यो विशिष्यते गुणकर्मभ्यश्च । अस्ति च शब्दे विभागजत्वं विशेषः । तस्मिन् द्रव्यं गुणः कर्म वा इति संदेहः । विशेषस्योभयथा दृष्टत्वात् किं द्रव्यस्य सतो गुणकर्मभ्यो विशेषः आहोस्विद्गुणस्य सत इति अथ कर्मणः सत इति विशेषापेक्षा अन्यतमस्य व्यवस्थापकं धर्मं नोपलभे इति बुद्धिरिति । (३) विप्रतिपत्तेरिति । व्याहतमेकार्थदर्शनं विप्रतिपत्तिः । व्याघातो विरोधो सहभाव इति । अस्त्यात्मेत्येकं दर्शनम् । नास्त्यात्मेत्यपरम् । न च सद्भावासद्भावौ सहैकत्र संभवतः । न चान्यतरसाधको हेतुरुपलभ्यते । तत्र तत्त्वानवधारणं संशय इति । ( ४ ) उपलब्ध्यव्यवस्थातः खल्वपि सच्चोदकमुपलभ्यते तडागादिषु । मरीचिषु चाविद्यमानमुदकमिति । ततः कचिदुपलभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सदुपलभ्यते अथासत् इति संशयो भवति । (५) अनुपलब्ध्यव्यवस्थातः सच्च नोपलभ्यते मूलकीलकोदकादि । असच्चानुत्पन्नं निरुद्धं वा । ततः
1
1
९२८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org