________________
९३०
न्यायकोशः।
चाकाशविशेषगुणत्वमसाधारणधर्ममुपलभमानस्य . निर्णायकमजानतः संशयो भवति किं शब्दो नित्यो न वा इति। (३) इन्द्रियेषु वैशेषिकसांख्ययोभौतिकत्वाभौतिकत्वरूपां विप्रतिपत्तिं पश्यतो निश्चायकं चापश्यतः संशयो भवति किमिन्द्रियाणि भौतिकानि उताभौतिकानि इति । (४) कूपखननानन्तरं जलोपलब्धौ सत्यां निर्णायकाभावे संशयो भवति किं प्राक् सदेवोदकं कूपखननेनाभिव्यक्तमुपलभ्यते उतासदेवोत्पन्नम् इति । (५) अस्मिन् वटे पिशाचोस्ति इति वार्ता श्रुतवतो वटसमीपं गतस्य पुरुषस्य पिशाचानुपलब्धौ निर्णायकाभावे संशयो भवति किं विद्यमान एव पिशाचोन्तर्धानशक्त्या नोपलभ्यते उताविद्यमान एव इति । अत्र उपलब्ध्यनुपलब्ध्योः साधारणधर्म एवान्तर्भावः । तथा च त्रीण्येव कारणानि इति न्यायवार्तिककृत आहुः। असाधारणविप्रतिपत्त्योरपि साधारणधर्म एवान्तर्भावः । अतः साधारणधर्मेणैव सर्वत्र संशय इति वैशेषिका आहुः (प्र०प० पृ० ३-४ ) (त० व० परि० १२ पृ० २१४-२१५)। [ख] धर्मितावच्छेदकावच्छेदेनान्यतरकोट्यवगाहि ज्ञानम् (त० प्र०)। [ग] विरुद्धोभयारोपसामग्रीद्वयसमाजादुभयारोप एक एव भवति सः (चि० १)। धर्मिज्ञानसहितविरुद्धोभयविशिष्टबुद्धिसामग्रीसमाजादेवोभयविषयकारोप एको भवति स एव संशयः इति समुदितार्थः ( मू० म० १)। [घ] एकधर्मिकविरुद्धभावाभावप्रकारकज्ञानम् (गौ० वृ० १११।२३ ) (मु० गु०)। [6] एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यज्ञानम् । यथा पर्वतो वह्निमान् न वा इति ज्ञानं संशयः। समुदितार्थश्च एकधर्मावच्छिन्नविशेष्यकभावाभावप्रकारकज्ञानम् (न्या० वा० ) । अथ वा यत्किचिद्धर्मिनिष्ठविशेष्यतानिरूपितविरुद्धनानाधर्मनिष्ठप्रकारतानिरूपितप्रकारिताशालिज्ञानम् ( वाक्य० ) ( ल० व० ) इति । [च प्रसिद्धानेकविशेषयोः ( स्थाणुपुरुषयोः) सादृश्यमात्रदर्शनात् उभयविशेषानुस्मरणान् अधर्माच्च किंस्वित् इत्युभयावलम्बी विमर्शः संशयः ( प्रशस्त० गुणनि० पृ० ३९)। यथा दूरवर्तिनि उच्चस्तरे अयं स्थाणुर्वा पुरुषो वा इति ज्ञानम् (त० सं० ) (वै० उ० २।२।१७ ) ( त० को०)। अयं संशया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org