________________
न्यायकोशः।
९२५ उ० ५।२।१ ) (प्रशस्त० गु० पृ० ३१ )। संयोगप्रपञ्चश्वान्यत्र (वै० उ० ७।२।९) द्रष्टव्यः । अत्रेदं बोध्यम् । संयोगस्तु विरोधी स्याद्गुणत्वे सति कर्मणः ( ता० र० श्लो० ४३) इति । [ख ] संयुक्तव्यवहारहेतुः ( त० सं० ) । यथा घटभूतलसंयोगः । संयुक्तव्यवहारासाधारणकारणम् इत्यर्थः (त० को०)। असाधारणत्वविशेषणेन साधारणकारणकालादिव्यावृत्तिः (त० दी० )। [ग] अप्राप्तयोः प्राप्तिः (भा० प० गु०) (प्रशस्त० गु० पृ० ३१ )। [घ ] अप्राप्तिपूर्विका प्राप्तिः (वै० उ० ७२।९ )। संयोगो द्विविधः कर्मजः संयोगजश्चेति । तत्र कर्मजोपि द्विविधः अन्यतरकर्मजः उभयकर्मजश्च । तत्राद्यः अन्यतरकर्मजः श्येनशैलादिसंयोगः । द्वितीय उभयकर्मजः मेषयोर्मल्लयोर्वा मेघयोर्वा संनिपातः । अत्राद्यः क्रियावता निष्क्रियस्य । यथा स्थाणोः श्येनेन विभूनां च मूतैः सह संयोगः । द्वितीयस्तु विरुद्धदिक्रिययोः संनिपातः (प्रशस्त० पृ०३१ )। संयोगजस्तु अवयवसंयोगजन्यः । स च उत्पन्नमात्रस्यैव चिरोत्पन्नस्य वा निष्क्रियस्य कारणसंयोगिभिरकारणैः कारणाकारणसंयोगपूर्वकः कार्याकार्यगतः संयोगः । स च एकस्मात् द्वाभ्याम् बहुभ्यश्च भवति । एकस्मात्तावत् तन्तुवीरणसंयोगाहितन्तुकवीरणसंयोगः । द्वाभ्यां तन्त्वाकाशसंयोगाभ्यां द्वितन्तुकाकाशसंयोगः । बहुभ्यश्च तन्तुतुरीसंयोगेभ्य एकः पटतुरीसंयोगः। अत्रेदं बोध्यम् । उत्पन्नमात्रस्य निष्क्रियस्य द्वितन्तुकस्य पटस्य कारणसंयोगिना ( कारणस्य तन्तोः संयोगिना) अकारणेन वीरणेन तृणविशेषेण यः संयोगः स एकस्मात् कारणस्य तन्तोरकारणेन वीरणेन संयोगात् कार्ये द्वितन्तुकपटे अकार्ये वीरणे जायते । एवमग्रेपि । चिरोत्पन्नस्य यथा अङ्गुलीतरुसंयोगात्कायतरुसंयोगादिः । कपालतरुसंयोगात्तरुकुम्भयोः संयोगः । इदं च बोध्यम् । न,स्त्यजः संयोगः । परमाणुभिराकाशादीनां प्रदेशवृत्तिरन्यतरकर्मज एव संयोगः । विभूनां तु परस्परं संयोगो नास्ति । युतसिद्ध्यभावात् । विनाशस्तु सर्वस्य संयोगस्यैकार्थसमवेताद्विभागात् । कचिच्च आश्रयविनाशादपि । तथा हि । तन्त्वोः संयोगे सति अन्यतरतन्त्वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org