________________
न्यायकोशः। संमुखी—(तिथिः ) संमुखी नाम सायाहव्यापिनी दृश्यते यदा। प्रतिप- संमुखी कार्या या भवेदापराह्निकी ॥ ( पु० चि० पृ० ५४.)। संमूर्छनम्-मोहः । तत्स्वरूपं च प्राक् (पृ० ६५६ पं० १३ ) प्रदर्शितम् । संयमः-एकवस्तुविषयकं धारणाध्यानसमाधिरूपं त्रयम् । यथा अस्मान् साधु विचिन्त्य संयमधनान् ( शाकुन्त० ४।१६) इत्यादौ संयमशब्दस्यार्थः । अत्र सूत्रम् त्रयमेकत्र संयमः ( पात० पाद० ३ सू० ४ ) इति । तत्र
भाष्यम् एकविषयाणि त्रीणि साधनानि संयमः इत्युच्यते इति । संयोगः-१ ( गुणः ) [क] संयुक्तप्रत्ययनिमित्तम् ( प्रशस्त० गुण० - पृ० ३०)। विभागजनककर्मजगुणवृत्तिगुणत्वव्याप्यजातिमत्त्वं संयोग
लक्षणम् ( ल० व० )। संयोगं प्रति युतसिद्धिः प्रयोजिका (वै० ७२।१३ ) ( वै० उ० ७।२।९ )। संयोगः अव्याप्यवृत्तिरनित्यः सर्वद्रव्यवृत्तिश्च ( वाक्य० )। विभुनोनित्यत्वात्तत्संयोगः स्वीक्रियते चेत्स नित्यः स्यात्। परं त्वकिंचित्करः स इत्यतो न विभुद्वयसंयोगः । अतः सर्वः संयोगः अनित्यः इति भावः । विभुनोस्तु न संयोगः । कर्मयुतसिद्ध्यादिरूपकारणाभावात् (वै० उ० ७।२।९) इति । संयोगो द्रव्यगुणकर्महेतुः । तत्र द्रव्यारम्भे निरपेक्षः गुणकर्मारम्भे तु सापेक्षः। संयुक्तसमवायादग्नेर्वैशेषिकम् (वै० १०।२।२७) । अग्नेर्वैशेषिकं विशेषगुण औष्ण्यं संयुक्तसमवायात्पाकजेषु निमित्तकारणम् (वै० उ० ७।२।९) (प्रशस्त० पृ० ३० ) । संयोगस्य गुणहेतुत्वमुच्यते। बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दतूलपरिमाणोत्तरसंयोगनैमित्तिकद्रवत्वपरत्वापरत्वपाकजाश्च एते संयोगासमवायिकारणकगुणाः । तत्र भावनान्तेषु गुणेषु आत्ममनोयोगो हेतुः । शब्दविभागाजन्ये शब्दे भेर्याकाशसंयोगः असमवायिकारणं भवति । स च अभिघातः इत्युच्यते (वै० वि० ७२।९) । तथा तूलपरिमाणे प्रचयः उत्तरसंयोगे संयोगजसंयोगे अवयवसंयोगः नैमित्तिकद्रवत्वे तेजःसंयोगः परत्वापरत्वयोर्दिक्कालसंयोगः पाकजे रूपादौ तेजःसंयोगः असमवायिकारणं भवति ( ५० मा०)। कर्मणि हेतुभूतः संयोगस्तु नोदनादिः (वै०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org