________________
न्यायकोशः।
९२३ खार्यां द्रोणाढकप्रस्थाद्यवगमः । स चानुमानमेव । खारीत्वं हि द्रोणाद्यविनाभूतं प्रतीतं खायां द्रोणादिसत्त्वमवगमयति इत्यनुमानान्तर्गततया प्रमाणान्तरत्वं दूषितम् । तथा हि खारीत्वं खारीपरिमाणम् । महापरिमाणे स्वावान्तरपरिमाणसमावेशोनुभवसिद्धः। तथा च खारीपरिमाणं द्रोणादिपरिमाणव्यापकम् इति व्यापकस्थित्या व्याप्यस्थितेरावश्यकत्वादनुमानेनैव गतार्थता ( तत्त्वकौमुदी० ) ( वाच० ) इति । [घ] वेदान्तिनस्तु अल्पप्रमासाधनं बहुलज्ञानम् । यथा शतमस्यास्ति इति ज्ञाने पञ्चाशज्ज्ञानम् इत्याहुः (प्र. च० परि० १ पृ० ४४ )। संभवो द्विधा संभावनात्मकः निर्णयात्मकश्चेति । तत्रादिमो न प्रमाणम् । अनिश्वायकत्वात् । यथा ब्राह्मणेषु चतुर्दशविद्याभिज्ञत्वं संभवति इति । द्वितीयस्तु शते पञ्चाशत् इति ( सि० च०)। अत्र शतवान् इत्युक्ते पश्चाशद्वान् इति ज्ञानं संभवति । तस्यानुमानेनैव निर्वाहात् । शतस्य पश्चाशद्व्याप्यत्वात् इति भावः (नील० पृ० ३४)। अत्रायं प्रयोगः शतं पश्चाशद्वत् तद्घटितत्वात् ( त० व० पृ० १००) इति । देवदत्तः पञ्चाशद्वान् शतवत्त्वात् यथाहम् इति च । २ उत्पत्तिः।३ आधेयस्याधारे समावेशनयोग्यत्वरूपो व्यापारः । ४ उत्कटकोटिकसंदेहः ( गदा० )।
५ संकेतः । ६ अपायः इत्यजय आह । ७ हेतुः ( वाच०)। संभावना-१ [क] उत्कटैकतरकोटिकसंशयः (त० प्र० ४ पृ० ६९)
(नील० ४ पृ० ३१) (त० व०)। यथा गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः। ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ इत्यादौ मरणसंभावना ( नील० ४ पृ० ३० )। अत्र औत्कट्यं च विषयताविशेषः ( नील० ४ पृ० ३१ ) (ग० सत्प्र०)। [ख] वैयाकरणास्तु क्रियासु योग्यताध्यवसायः ( लिङर्थविशेषः )। यथा सर्पिषोपि स्यात् इत्यादौ लिङाद्यर्थ इत्याहुः। [ग] माध्ववेदान्तिनोप्याहुः बाह्यालीप्रदेशेषु पुरुषेणानेन भवितव्यम् इत्यूहापस्नामकसंभावनाज्ञानम् अन्यतरकोटिप्रापकप्राचुर्यनिमित्तोन्यतरकोटिप्रधानकः संशय एव (प्र० प० पृ० ५ ) इति । २ आलंकारिकाश्च अर्थालंकारविशेषः इत्याहुः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org