________________
९२२
न्यायकोशः। ज्ञेयम् संवोधनविभक्त्यन्तप्रकृत्यर्थोन्यत्र विशेषणतया नान्वेति (ग० . व्यु० संबु० पृ० ११७-११८ ) इति । शाब्दिकास्तु [ख] क्रिया
विनियोगफलकाभिमुखीकरणम् ( ल० म० )। [ग] अनभिमुखस्याभिमुखीकरणं संबोधनम् ( काशिका० ) इत्याहुः । संबोधनपदार्थस्य क्रियायामेवान्वय उक्तो हरिणा संबोधनपदं यच्च तक्रियाया विशेषणम् ( वाक्यप० ) इति । स्थितस्याभिमुखीभावमात्रं संबोधनं विदुः । प्राप्ताभिमुख्यः पुरुषः क्रियासु विनियुज्यते ॥ (वाक्यप० ) इति च । [५]
अन्यत्रासक्तस्याभिमुखीकरणलक्षणोऽभीष्टक्रियासु विनियोगाय ज्ञापनादि. रूपव्यापारविशेषः ( वाच० ) इति । संबोध्यत्वम्-१ [क] क्रियाकरणाय वऋभिप्रेतत्वम् । वक्तृनिष्ठविलक्षण
बोधविशेष्यत्वं वा। यथा चैत्र व्रज इत्यादौ प्रथमार्थः । अत्रोक्तं हरिणा ... प्राप्ताभिमुख्यः संबोध्यः क्रियासु विनियुज्यते ( वाक्यप० ) इति । अत्र
तादृशसंबोध्यत्ववांश्चैत्रोनुमतव्रजनवान् इत्याकारको बोधः । [ख] शाब्दिकास्तु संबोधनविषयत्वम् इत्याहुः (ल० म०)। २ प्रशंस्यत्वम् । यथा सुमित्रामात नैतत्ते विचित्रं चित्रयोधिनः इत्यादौ संबुद्धिसुबर्थः ।
अत्र मातृशब्दस्य ऋकारादेरकारादेशः । संभवः-१ ( अनुमानम् ) [क] अविनाभाववृत्त्या च संबद्धयोः
समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणम् । तदप्यनुमानमेव ( गौ० वा० २।२।२) । अत्र संभवः प्रमाणान्तरम् इति पौराणिका आहुः । संभवोप्यनुमानमेव न तु प्रमाणान्तरम् इति वैशेषिका नैयायिकाश्च प्राहुः (त० व० पृ० १००) (नील० पृ० ३४ ) । अत्र भाष्यम् संभवोप्यविनाभावित्वात् ( व्याप्तिमूलकत्वात् ) अनुमानमेव ( प्रशस्त० २ पृ० २८ ) इति । [ख] भूयःसहचारार्धानज्ञानम् । यथा संभवति ब्राह्मणे विद्या संभवति सहस्रे शतम् ( गौ० वृ० २।२।१ ) ( त० दी० ) ( त० व० पृ० ९९ ) इति ।[ग] अविनाभाविनोर्थस्य सत्ताग्रहणादन्यस्य सत्ताग्रहणम् । यथा द्रोणस्य सत्ताग्रहणादाढकस्य सत्ताग्रहणम् । आढकस्य सत्ताग्रहणात् प्रस्थस्य (वात्स्या०२।२।१) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org