________________
न्यायकोशः। संप्रदायः-गुरुपरंपरागतः सदुपदेशः । यथा वैष्णवसंप्रदायान्तर्गतो मध्व
संप्रदायः। ईश्वर एव सर्वसंप्रदायप्रद्योतकः । तथा हि ईश्वरो भूतावेशन्यायेन निर्माणकायमधिष्ठाय सर्वसंप्रदायप्रद्योतकः (कु० ) इति पातञ्जला
आहुः । नन्वशरीरात्कथं वेदघटादिशब्दव्यवहारसंप्रदायः । उच्यते । सर्गादावदृष्टोपगृहीतभूतभेदान्मीनशरीरोत्पत्तावदृष्टवदात्मसंयोगाददृष्टसहकृतप्रयत्नवदीश्वरसंयोगाद्वा सकलवेदार्थगोचरज्ञानाद्विवक्षासहितान्मीनकलेवरकण्ठताल्वादिक्रियाजन्यसंयोगाद्वेदोत्पत्तिः। एवम् कुलालादिशरीरावच्छेदेनादृष्टसहकृतप्रयत्नवदीश्वरसंयोगात् तद्बुद्धीच्छासहितचेष्टोत्पत्तौ सकलघटानुकूलव्यापाराद्धटोत्पत्तिः । एवम् प्रयोज्यप्रयोजकज्ञानाय व्यापाराभिमतशरीरावच्छेदेनापि अदृष्टसहकृतेश्वरज्ञानेच्छाप्रयत्नादेव वाग्व्यवहारः । ततस्तत्सुशीलो बालो व्युत्पद्यते सोयं भूतावेशन्यायः (चि० २ परिशिष्टे ईश्वरवादः पृ० २३) इति । संप्रदायप्रवर्तकभेदास्तु पद्मपुराणे श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव च। श्रीलमध्वः पद्मनाभो नृहरिर्माधवस्तथा॥.अक्षोभो जयतीर्थश्च ज्ञानसिंधुर्महानिधिः। विद्यानिधिश्च राजेन्द्रो जयधर्ममुनिस्तथा ॥ पुरुषोत्तमो ब्रह्मण्यो व्यासतीर्थमुनिस्तथा । श्रीमल्लक्ष्मीपतिः श्रीमान्माधवेन्द्रपुरी तथा ॥ संप्रदायविहीना ये मत्रास्ते निष्फला मताः ॥ अतः कलौ भविष्यन्ति चत्वारः संप्रदायिनः ॥ श्रीमध्वरुद्रसनका वैष्णवाः क्षितिपावनाः ( पद्मपु० ) ( वाच० ) इति । तत्रोक्ता वैष्णवादिसंप्रदाया यथा श्रीशिव उवाच । वैखानसः सामवेदी श्रीराधावल्लभी तथा। गोकुलेशो महेशानि तथा वृन्दावनी भवेत् ॥ पञ्चरात्रः पञ्चमः स्यात् षष्ठः श्रीवीरवैष्णवः । रामानन्दी हविष्याशी निम्बार्कश्च महेश्वरि ॥ ततो भागवतो देवि दश भेदाः प्रकीर्तिताः । शिखी मुण्डी जटी चैव द्वित्रिदण्डी क्रमेण च । एकदण्डी महेशानि वीरशैवस्तथैव च। सप्त पाशुपताः प्रोक्ता दशधा
वैष्णवा मताः ॥ ( शक्तिसंग० त० ) ( वाच० ) इत्यादि । संप्रधारणा-१ संप्रश्नः। २ समर्थनम् (वै० सा० द० ल० पृ०
१३१) (अमर० २।८।२५)। ३ स्पर्धा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org