________________
९२०
न्यायकोशः। संप्रश्नः-(लिङर्थः) संप्रधारणम् (पाणि० सू० ३।३।१६१ काशिका )। - तच्च उपस्थितक्रिययोर्मध्य एकतरक्रियाधर्मिकेष्टसाधनत्वनिर्णयेच्छा । यथा - किं भो वेदमधीयीय उत तर्कम् इत्यादौ लिङर्थः । अत्र खोद्देश्यकत्व
संबन्धेन संबोध्यविशिष्टा मनिष्ठा च वेदाध्ययनतर्काध्ययनान्यतरभावना इष्टसाधनत्वप्रकारकनिर्णयेच्छाविषयः इति बोधः (वै० सा०
द० लका० पृ० १३१)। संप्रसादः-१ सम्यक् प्रसन्नता । २ योगशास्त्रज्ञास्तु चित्तस्य नैर्मल्य
संपादको यत्नविशेष इत्याहुः। ३ वेदान्तिनस्तु सुषुप्तिस्थानम् प्राणः ( शारी० भा०)। ४ पूर्णसुखम् ( मध्वभा० )। अत्रायं विवेकः । ॐ भूमा संप्रसादादध्युपदेशात् ॐ ( ब्रह्मसू० १॥३॥८) इत्यधिकरणे स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति इति बृहदारण्यके ( ४।३।१५-१७) स्वप्नजागरितस्थानाभ्यां सह प्रयोगात् संप्रसादः सुषुप्तिस्थानमुच्यते इति शंकरभारतीमतम् ( शारी० भा० टी०, रत्नप्र० ११३।८) । मध्वाचार्यमते तु तत्र यो भूमा तत्सुखम् नाल्पे सुखमस्ति भूमैव सुखम् इति छान्दोग्यश्रुतौ (७।२३) भूम्नः पूर्णसुखरूपत्वाभिधानात् संप्रसादः पूर्णसुखम् ( मध्वभा० टी० तत्त्वप्र० ११३८ ) इति । ५ जीवः । यथा य एष संप्रसादोस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणामिनिष्पद्यत एष आत्मेति होवाच ( छान्दो० उप० ८।३।४ )
इत्यादौ इत्याहुः ( ब्रह्मसू० भा० १।३।१८ )। संबन्धः-१ [क] संबन्धिभिन्नत्वे सति संबन्ध्याश्रितः। [ख]
वभिन्नसंबन्ध्याश्रितः स्वभिन्नप्रतियोगिकः पदार्थः (सि० च० १ पृ० ३)। यथा घटभूतलयोः संयोगः। यथा वा प्रत्यक्षस्थल इन्द्रियार्थसंनिकर्षः । [ग] संबद्धव्यवहारहेतुः ( सि० च० )। यथा घटवद्भूतलम् इति शाब्दबोधस्थले संयोगः । संबन्धत्वं च यत्किचित्पदार्थानुयोगिकत्वविशेषः (ग० २ व्याप्ति० सिद्धा० ) । अथ वा सांसर्गिकविषयताश्रयत्वम् ( राम० १ पृ० ४०)। संबन्धो द्विविधः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org