________________
न्यायकोशः ।
1
ताश्रयत्वभिन्नो यो धात्वर्थतावच्छेदकफलसंबन्धः स निरूपकत्वम् । तादृशसंबन्धवत्त्वेनेष्टत्वं च ब्राह्मणस्यैव न तु गोः इति ( ग० व्यु० का ० ४ ) । [ ङ ] शाब्दिकास्तु प्रकृतधात्वर्थे यत्कर्म तत्संबन्धित्वेनेच्छोद्देश्यत्वम् इति वदन्ति । संप्रदानं त्रिविधम् प्रेरकम् अनुमन्तृ अनिराकर्तृ ( उदासीनं ) चेति । तदुक्तं वाक्यपदीये अनिराकरणात्कर्तु - स्त्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥ इति । अत्र प्रेरकत्वं च प्रकृतधात्वर्थक्रियाजन्यफलभागितयेच्छाविषयत्वे सति कर्तृसंबन्धित्यागादिविषयकेष्टसाधनताबोधौपयिकव्यापारवत्त्वम् । अनुमन्तृत्वं च जातेष्टसाधनताबोधे अप्रामाण्यशङ्कया शिथिलस्य कर्तु - स्तादृशशङ्का विधूननक्षम प्रमाणोपन्यासेन प्रवर्तनम् । कर्मनिष्ठस्वत्वादिफलाभ्युपगममात्रानुकूलव्यापारवत्त्वं वा । अनिराकर्तृत्वं च प्रकृतधात्वर्थक्रियाजन्यभागितयेच्छाविषयत्वे सति कर्तृप्रवृत्तिनिवृत्त्यन्यतरानुकूलव्यापाराभाववत्त्वम् (वै० सा० द०) । तत्राद्यम् विप्राय ( याच काय ) गां ददाति इत्यादौ विप्रः । द्वितीयम् उपाध्यायाय गां ददाति इत्यादावुपाध्यायः । तृतीयं च देवता । यथा सूर्यायायं ददाति इत्यादौ सूर्य: ( ल० म० का ० ४ पृ० १०१ ) । नात्र सूर्यः प्रार्थयते नानुमन्यते न निराकरोति इति सूर्यस्योदासीनता विज्ञेया (वै० सा० द० पृ० २०० ) । क्वचित् विषयित्वम् चतुर्थ्यर्थः । यथा चैत्राय कुप्यति क्रुध्यति इत्यादौ चतुर्थ्यर्थः संप्रदानत्वम् । एवम् पटाय यतते इत्यादी उद्देश्यत्वरूपं संप्रदानत्वं चतुर्थ्यर्थो धात्वर्थकृतौ बोध्यते । अत्रेदं बोध्यम् मित्रं द्रुह्यति शिष्य मीर्ष्यति पुत्रमसूयति इत्यपि प्रयोगात् द्रोहादिकर्मणः संप्रदानत्वं वैकल्पिकमुन्नीयते इति । कोपपूर्वकस्य द्रोहादेः हादिधातुवाच्यत्वे तत्कर्मणः संप्रदानत्वम् । द्रोहादिमात्रस्य तथात्वे तु कर्मत्वमेव इति पुनः कौमारा आहुः | अत्रेदं बोध्यम् । सोपसर्गयोः क्रुधद्रुहोः कर्मणः कर्मतैव न तु संप्रदानता । अत एव शिष्यस्याभिकोद्धा मित्रस्याभिद्रोढा इत्यादौ कृद्योगे कर्मणि षष्ठयेव प्रमाणम् ( श० प्र० श्लो० ७० टी० पृ० ८७ ) ।
1
1
९१८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org