________________
न्यायकोशः। विप्रस्य संप्रदानत्वम् । अत्र संबन्धित्वेन परेच्छाविषयत्वं चतुर्थ्यर्थः। स च धात्वर्थतावच्छेदकफलेन्वेति । वृत्तित्वं द्वितीयार्थः। तथा च विप्रसंबन्धिपरेच्छाविषयगोवृत्तिस्वस्वत्वध्वंसपरस्वत्वानुकूलत्यागानुकूलकृतिमान् । इत्यन्वयधीः । अत्र चैत्राय यच्छति इत्यादिप्रयोगवारणाय पर इति पदं दत्तम् ( का० व्या० कार० ४ पृ० ८ )। कर्मणा यमभिप्रैति स संप्रदानम् ( पाणि० १।४।३२ ) इति सूत्रेण विप्रस्य संप्रदानसंज्ञा । तदर्थश्च तत्क्रियाकरणीभूतेन तत्क्रियाकर्मणा यमभिप्रैति संबन्धुमिच्छति सः फलभागित्वेनोद्देश्यः संप्रदानसंज्ञकः इति । अत्र गौणमुख्यसाधारणे संप्रदाने चतुर्थी भवति ( वाच० )। पितृस्वर्णोद्देशेन कृतगोदानादिस्थले दानजन्यस्वर्गात्मकफलभागित्वेन पितुरुदेश्यत्वेपि पितृस्वर्गादिकस्य धात्वर्थतावच्छेदकत्वाभावेन न पित्रादेः संप्रदानत्वम् इति पित्रे गां ददाति इति न प्रयोगः ( का० व्या० कार० ४ पृ० ८)। [ग] क्रियाजन्यफलभागितया कर्तुरिच्छाविषयत्वम् (ग० व्यु० का० २ पृ० ४३)। ब्राह्मणाय गां ददाति इत्यादौ क्रिया च दानम् । तज्जन्यं फलं तु स्वत्वम् । तथा च दानस्य स्वत्वहेतुत्वे प्रमाणम् सप्त वित्तागमा धा दायो लाभः क्रयो जयः। प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ ( मनु० अ० १० श्लो० ११५). इत्यादि । प्रदानं स्वाम्यकरणम् इति च । अत्रायमाशयः । ब्राह्मणाय त्यक्तायां गवि गौरियं ब्राह्मणस्य न तु मम इत्यादिः सार्वजनीनप्रतीतिरेव तत्र प्रमाणम् ( श० प्र० श्लो० ७० टी० पृ० ८५) इति । [घ] धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नफलसंबन्धविशिष्टतयेष्ठत्वम् । यथा ब्राह्मणाय गां ददाति इत्यादी ब्राह्मणस्य संप्रदानत्वम् । तथा चात्र निरूपितत्वेन कर्तुरिच्छाविषयत्वं चतुर्थ्यर्थः । खत्वजनकत्यागो ददात्यर्थः । निरुक्तचतुर्थ्यर्थस्य द्वितीयान्तार्थगोवृत्तित्वस्य च धात्वर्थतावच्छेदकस्वत्वेन्वयः । एवं ब्राह्मणनिरूपितत्वेनेच्छाविषयगोनिष्ठस्वत्वजनकत्यागकर्ता इति बोधः। धात्वर्थतावच्छेदकेत्यत्र संबन्धस्तादृशाश्रयत्वभिन्नोवश्यं ग्राह्यः । तेन विप्राय गां ददाति इत्यादी स्वस्वत्वध्वंसविशिष्टायाः परस्वत्वजनकेच्छाया दाधात्वर्थत्वे गोर्धात्वर्थतावच्छेदकीभूतपरस्वत्वात्मकफलाश्रयत्वेनेष्टत्वेपि नातिव्याप्तिः।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org