________________
९१४
न्यायकोशः। संनिकृष्टत्वम् इति विज्ञेयम् । अथ वा अल्पसंयोगान्तरितत्वम् (वै० उ० ७।२।२१ पृ० ३४२ ) ( दि० गु० पृ० २०८ ) । यथा पञ्चवट्याख्यम्बकेश्वरमपेक्ष्य जनस्थानसंनिकृष्टत्वम्। यथा वा सद्वृत्तसंनिकर्जे हि क्षणार्धमपि शस्यते (पुराणम् ) इत्यादौ संनिकर्षशब्दस्यार्थः । २ तदपेक्षयाल्पतरतपनपरिस्पन्दान्तरितजन्मत्वम् (वै० उ० ७।२।२१ पृ० ३४३ )। तदर्थस्तु तदधिकरणकालध्वंसाधिकरणक्षणवृत्तिजन्मवत्त्वम् (प० मा० ) इति । एतच्च कालकृतं संनिकृष्टत्वम् इति विज्ञेयम् । यथा युधिष्ठिरमपेक्ष्यार्जुनस्य भीमसंनिकृष्टत्वम् । शिष्टं च अपरत्वशब्दव्याख्यानावसरे संपादितम् इत्यत्र विरम्यते । ३ निकटसंबन्धः। संनिधिः ।
-१ अव्यवधानम् (मु० ४ ) । यथा संनिधानं तु पदस्यासत्तिरुच्यते (भा० ५० ४ श्लो० ८४ ) इत्यादौ संनिधानशब्दार्थः। २ सामीप्यम् (संनिकृष्टत्वम् )।३ अविनाभाववृत्तिः संनिधिः (वात्स्या० २।२।५८ ) । यथा तदर्थे व्यक्तयाकृतिजातिसंनिधावुपचारात्संशयः (गौ० २।२।५८) इत्यादौ संनिधिशब्दस्यार्थः। अत्र वृत्तिकारस्तु सामीप्यम् मेलनम् संनिधिः इत्याह ( गौ० वृ० २।२।५८ )।
४ इन्द्रियविषयता इति केचिदाहुः ( मेदि०)। संनिपत्योपकारकम्-कर्माङ्गद्रव्यााद्देशेन विधीयमानं कर्म। यथावघात
प्रोक्षणादि ( मी० न्या० पृ० ३४ )। संनिपातः-१ पतनम् । यथा दृष्टिसंनिपात इत्यत्र । २ शाब्दिकाश्च . संश्लेषः (संबन्धः)। यथा संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य
(व्याक० परिभा० ) इत्यादौ संनिपातशब्दस्यार्थ इत्याहुः । ३ भिषजस्तु कफादिधातुत्रयस्य वैषम्यरूपत्रिदोषजनितो ज्वरविशेष इत्याहुः । संनिपातज्वरावस्थं प्रकृत्याह तदवस्थं तु तं दृष्ट्वा मूढो व्याहरते जनः । धर्षितो राक्षसैनमवेलायां चरन्ति ये ॥ अम्बया ब्रुवते केचिद्यक्षिण्या ब्रह्मराक्षसः । पिशाचैर्गुह्यकैश्चैव तथान्यैर्मस्तके हतम् ।। कुलदेवार्चनाहीनं धर्षितं कुलदैवतैः । नक्षत्रपीडामपरे गरकर्मेति चापरे ॥ संनि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org