________________
९१२
न्यायकोशः। . इत्याहुः । श्री ईश इति स्थिते श्रीश इत्यच्संधिः । तत् लय इति स्थिते तल्लय इति हल्संधिः। ४ नाटकाङ्गविशेषः इत्यालंकारिका आहुः । अंत्रोक्तम् अन्तरैकार्थसंबन्धः संधिरेकान्वये सति ( सा० द० परि० ६ श्लो० ७५ ) इति । ५ अस्थिद्वयसंयोगस्थानम् इति शारीरज्ञा आहुः । ६ धर्मशास्त्रज्ञास्तु यस्मिन् काल आदित्यस्य खण्डमण्डलस्योपलब्धिः सः। यथा अहोरात्रयोः संधिः इत्यादावित्याहुः ( मिता० १ ) । ७ चौरादिकृतसुरुङ्गा । यथा संधिं कृत्वा तु मे चौर्यम् (स्मृतिः ) इत्यादौ । ८ भगः । ९ संघट्टनम् । १० सत्यादियुगादीनामाद्यन्तौ कालौ इति पौराणिका आहुः । अत्रोक्तम् ससंधयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश । कृतप्रमाणः कल्पादौ संधिः पञ्चदशः स्मृतः ॥ इति । तत्र सत्ययुगस्य चत्वारि वर्षशतानि संध्या संध्यांशश्च । त्रेतायास्त्रीणि वर्षशतानि संध्या संध्यांशश्च । द्वापरस्य द्वे वर्षशते संध्या संध्यांशश्च । कलेरेकवर्षशतं
संध्या संध्यांशश्च ( मनु० अ० १ श्लो० ६९-७० )। संध्या-१ एकरूपकालोत्तरभाविपररूपकालयोरवकाशविशेषः । यथा
दिवारात्रस्य मध्यवर्तिकालः संध्या भवति । स च कालः दिवाशेषदण्डसहितरात्रिप्रथमदण्डात्मकः कालः। तयोश्चतुर्दण्डात्मककालश्च । तथा च त्रियामां रजनी प्राहुस्त्यक्त्वाद्यन्तचतुष्टये । नाडीनां तदुभे संध्ये दिवसाद्यन्तसंज्ञिते ॥ इति । युगस्य तु पूर्वा संध्या उत्तरश्च संध्यांशः ( ननु० टी० कुल्लू० १।६९) । तं चान्यरीत्याप्याहुः पूर्वदिवसीयरात्रिशेषदण्डादिपरदिनसूर्योदयपर्यन्तः सूर्यास्तात्पूर्वोत्तरदण्डात्मकः कालः इति । संध्याद्वयकालस्तु अहोरात्रसंबन्धिमुहूर्तात्मकः । तथा च दक्ष आह अहोरात्रस्य यः संधिः सूर्यनक्षत्रवर्जितः । सा च संध्या समाख्याता मुनिभिस्तत्त्ववादिभिः ॥ ( पुरु० चि० पृ० ४५८ ) इति । तथा नक्षत्रदर्शनात्संध्या सायं तत्परतः स्थितम् । तत्परा रजनी ज्ञेया तत्र धर्मान्विवर्जयेत् ॥(पुरु० चि० पृ० ४६ ) इत्युक्तम् । २ सायाह्नः। ३ संध्याकालः उपास्यदेवताविशेषः । अत्रार्थे प्रमाणम् संध्यामुपासते ये तु नियतं शंसितव्रताः इति स्मृतिः । ४ संध्योपासना । यथा अनर्हः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org