________________
न्यायकोशः ।
संदिग्धः – १ ( हेत्वाभासः ) [क] अनैकान्तिकशब्द वदस्यार्थोनुसंधेयः (वै० २।२।३६, ३|१|१५ ) ( त० व० २।३।४८ ) । तदुक्तम् विरुद्धासिद्धसंदिग्धमंलिङ्गं काश्यपोब्रवीत् (वै० उ० २।२।३६ ) ( प्रशस्त० गुणनि० ) इति । [ ख ] यस्तु सन्ननुमेये तत्समानासमानजातीययोः साधारणः स सन्नेव संदेहजनकत्वात्संदिग्धः । यथा यस्माद्विषाणी तस्माद्गौः इति । [ग] एकस्मिंश्च द्वयोर्हेत्वोर्यथोक्तलक्षणयोर्विरुद्वयोः संनिपाते संशयदर्शनादयमन्यः संदिग्धः इति केचिदाहुः । यथा मूर्तत्वामूर्तत्वं प्रति मनसः क्रियावत्त्वास्पर्शत्वयोः ( प्रशस्त ० २ पृ० ४७ ) ( ० ३।१।१५ ) इति । २ संदेह विषयः । यथा संदिग्धासिद्ध: ( न्या० बिन्दु० टी० ) इत्यादौ संदिग्धशब्दार्थः । ४ संलिप्तः इति काव्यज्ञा आहुः । संदिग्धानैकान्तिकत्वम् — १ ( हेत्वाभासः ) साध्यतदभावसंशयकत्वम् । २ पक्षांशे साध्याभावसंशयात्मकं पक्षवृत्तित्वावगाहि व्यभिचारज्ञानम् । अथ वा हेतौ व्यभिचारसंशयः (ग० बाधं ० ) । यथा धूमो वह्नयभाववद्वृत्तिर्न वा इत्यादिसंशयः । यथा वा बौद्धमते सर्वज्ञः कश्चिद्वक्तृत्वात् ( न्या० बिन्दु ० टी० ) इत्यादौ । संदिग्धैकादशी — उदद्यात्प्रात्रिघटिकाव्यापिन्येकादशी यदा । संदिग्धैकादशी नाम वर्जयेद्धर्मवृद्धये ( पु० चि० पृ० १५२ ) । संदेहः – संशयशब्दवदस्यार्थोनुसंधेयः । २ आलंकारिकाच अर्थालंकारविशेष इत्याहुः । तदुक्तं काव्यप्रकाशे ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः (का० प्र० उ० १० श्लो० ६ ) इति ।
संधिः – १ संयोगः ( अमर : ३।२।१९ ) । २ नृपाणां षङ्गुणान्तर्गतो . मैत्री करणरूपव्यापार इति नीतिशास्त्रज्ञा आहुः । अत्रोक्तम् संधिविग्रहयानानि संस्थाप्यासनमेव च । द्वैधमाश्रयणं चैव षड्गुणा नीतिवर्णने ॥ इति । संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ( अमर : २|८|१८ ) इति च । अत्राधिकं तु शुक्रनीतियुक्तिकल्पतरुहितोपदेशादौ द्रष्टव्यम् । ३ वैयाकरणास्तु वर्णद्वयजातो वर्णविकारः । यथा अचूसंधि: हल्संधि:
Jain Education International
For Personal & Private Use Only
९११
www.jainelibrary.org