________________
९१०
न्यायकोशः। घिकी अनुगतप्रवृत्तिनिमित्तसंकेतवती नैमित्तिकी इति निर्वाच्याः इति । अन्यत्र चैवमुक्तम् । संज्ञा त्रिविधा पारिभाषिकी औपाधिकी नैमित्तिकी चेति । तत्राद्या आधुनिकसंकेतशालिनी । यथा चैत्रादिः। द्वितीया उपाधिप्रवृत्तिनिमित्तिका । यथा पशुभूताकाशादिः । तृतीया जातिप्रवृत्तिनिमित्तिका । यथा पृथिवीजलादिः । भाष्यकृतस्तु आकाशादिसंज्ञाः " पारिभाषिक्य एव इत्याहुः (प० मा० )। शिष्टं तु रूढशब्दव्याख्याने
संपादितमेव इति नात्र कथितम् । .. संज्ञास्कन्धः-गौरित्यादिशब्दोल्लेखिसंवित्प्रवाहः ( सर्व० सं० पृ०
४० बौ० )। संज्ञी-संज्ञाशब्दप्रतिपाद्योर्थः । यथा संज्ञासंज्ञिसंबन्धज्ञानमुपमितिः इत्यादौ
गवयादिरूपोर्थः संज्ञी ( नील० )। संततिः-१ अविच्छिन्नधारा । इयं संततिर्द्विविधा दैशिकी कालिकी
चेति । तत्र दैशिकी मूर्तानामेव । यथा तैलादीनाम् । कालिकी संततिस्तु ज्ञानत्वसुखत्वादीनाम् । अत्र दैशिकसंततित्वं च स्वाधिकरणदेशीयनानावच्छेदकवृत्तिधर्मत्वम् । तथा कालिकसंततित्वं च नानाकालीनकार्यमात्रवृत्तिधर्मत्वम् (चि० २ परिशि० मुक्तिवादः पृ०४५)। काव्यज्ञास्तु २ गोत्रम् । ३ पुत्रः दुहिता च । ४ विस्तारः । ५ पतिश्च
इत्याहुः। संतर्दनम्-परस्परं संयोगः (जै० सू० वृ० अ० ३ पा० ३ सू० २४ )। संतानः-१ एकधर्मावच्छिन्नत्वेन ज्ञानम् (गौ० वृ० २।२।१७ )। यथा
बौद्धमते आलयविज्ञानसंतानः । २ वंशः इति काव्यज्ञा वदन्ति । संदंशः—एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहितत्वम् । यथा
भिक्रमणम् ( मी० न्या० पृ० २९)। संदर्भ:-१ कथनम् । अत्रोक्तम् गूढार्थस्य प्रकाशश्च सारोक्तिः श्रेष्ठया गिरा । नानार्थवत्त्वं वेद्यत्वं संदर्भः कथ्यते बुधैः ॥ इति। २ वक्ततात्पर्यविशेषः । ३ रचना । ४ प्रथनम् । ५ प्रबन्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org