________________
न्यायकोशः ।
( मु० गु० ) इति । द्वित्वादिसंख्यायाः खल्वेकत्वेभ्योनेक विषय बुद्धिसहितेभ्यो निष्पत्तिः । अपेक्षाबुद्धिविनाशाद्विनाशः इति । कचिच्चाश्रयविनाशाद्दित्वविनाशः ( प्रशस्त० पृ० २५-२६ ) इति । [घ] । शाब्दिकास्तु नियतविषयपरिच्छेदहेतुः संख्या इति वदन्ति । २ ज्ञानविशेषः ( सम्यग्बुद्धिः ) । यथा सांख्यः इत्यादौ संख्या शब्दार्थः । ३ विचारः ( राजनि ० ) ।
संगतिः - १ [क] एकवाक्यतापन्नत्वे सति अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयोर्थः । यथा प्रत्यक्ष निरूपणकार्यत्वमनुमाननिरूपणे संगति: ( दीधि० २ पृ० २ ) ( म०प्र० पृ० १५ ) ( राम० २ पृ० १३४ ) । यथा वा सद्धेतुनिरूपणानन्तरंमसद्धेतुनिरूपणे व्याप्तिपक्षधर्मत्वविरहरूपप्रसङ्गसंगति: ( ग० २ हेत्वा० सामा० पृ० १ ) । संगतिश्च कस्यचिद्वस्तुनो निरूपणे ह्युपयुज्यते । अत्र व्याप्तिरनुसंधेया यद्यदनन्तरं निरूप्यं भवति तत्तत्संगतं भवति ( राम ० २ पृ० १३४ ) इति । असंगतत्वज्ञानेन हि प्रन्थादेरुन्मत्त - प्रलपितत्वशङ्का उत्पद्यते । संगतत्वज्ञानेन तु तन्निवृत्तिः । तत एकवाक्यताप्रतिपत्तिः । तदेव संगतेः प्रयोजनम् ( भवा० ) । अत एव प्रमाणमपि नासंगतं प्रयुञ्जीत इत्यभियुक्तोक्तिः ( राम० २ पृ० १३४ ) । पूर्वापरप्रन्यैकवाक्यताप्रतिपत्ति: एकप्रयोजनवत्ताज्ञानफलिका प्रयोजनम् ( दीधि० २ ० १ ) (वै० सा० द०) । संमतिलक्षणं तुप्रसङ्गाद्यन्तमत्वम् ( भवा० ) । जायते च कार्ये कारणे वा ज्ञाते कारणत्वस्य कार्यत्वस्य वा ज्ञानात् किमस्य कारणं कार्यं वा इति जिज्ञासा । अतस्तयोर्द्वयोरपि संगतित्वम् ( दीधि० २ पृ० १-२ ) । तथा हि । प्रत्यक्षाभिधानानन्तरमनुमानाभिधानं निरूपणात्मकम् । तत्प्रयोजक जिज्ञासा प्रत्यक्षकार्यज्ञानं भवतु इत्याकारा । तज्जनकज्ञानं प्रत्यक्षकार्यज्ञानमिष्टसाधनम् इत्याकारकम् । तद्विषय: प्रत्यक्षकार्यत्वम् । इति कार्यत्वे लक्षणसमन्वयः । एवं कारणत्वादावपि संगतित्वमूह्यम् ( न्या० म० २ ( पृ० १५ ) । जिज्ञासायाः प्रयोजकत्वं चेत्थम् । प्रथमं ज्ञानेष्टसाधनता
1
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org