________________
न्यायकोशः
९०५ बोध्यम् । यत्रानियतैकत्वज्ञानं तत्र त्रित्वादिभिन्ना बहुत्वसंख्योत्पद्यते । यथा सेनावनादौ इति कन्दलीकार आह । आचार्यास्तु त्रित्वादिकमेव बहुत्वं मन्यन्ते । तथा च त्रित्वत्वादिव्यापिका बहुत्वत्वजाति तिरिच्यते। सेनादौ चोत्पन्नपि त्रित्वादौ त्रित्वत्वाद्यग्रहो दोषात् (मु० गु० ) इति । शिष्टं च बहुत्वशब्दव्याख्याने संपादितम् । तत्तत्र दृश्यम् । ब्रह्माण्डपुराणे चेत्थमुक्तम् एकं दश शतं चैव सहस्रमयुतं तथा । लक्षं च नियुतं चैव कोटिरर्बुदमेव च ॥ वृन्दः खो निखर्वश्च शङ्खपद्मौ च सागरः । अन्त्यं मध्यं पराधं च दशवृद्ध्या यथोत्तरम् ॥ (सि० च० ) इति । तत्र एकादिसंख्यावाचकस्य संख्यासंख्येयोभयपरता । तेन घटानां पञ्च घटाः पञ्चेति प्रयोगद्वयं साधु । तत्र दशान्तसंख्यायाः प्रायः संख्येये प्रयोगो दृश्यते । किं तु संख्यात्वजातिविशिष्टायामेव शक्तिः । संख्यायुक्ते निरूढलक्षणा इति विवेकः । तेषां विशेषसंज्ञा लीलावत्यामपि दर्शिता यथा एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमब्जः ( शङ्खः ) खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥ जलधिश्वान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः । संख्याव्यवहारार्थ कृताः पूर्वैः ( वाच०) इति । तत्रैकादिदशान्ताः शब्दास्त्रिलिङ्गाः। विंशत्याद्यास्तु नियतस्त्रीलिङ्गादिकाः । तत्रापि विंशत्यादिशब्दानां बहुत्वसंख्यावाचकत्वेपि एकवचनान्ततैव । एकशेषेण तु बहुवचनान्ता अपि पञ्च विंशतयः षट् शतानि इत्यादयः प्रयोगाः साधवः । सा च संख्या प्रकारान्तरेण द्विविधा एकवृत्तिः अनेकवृत्तिश्च । तत्रैकत्वमेकवृत्ति । तच्च नित्यगतं नित्यम् । अनित्यगतमनित्यमेव । द्वित्वादिकं परार्धान्तमनेकवृत्ति । तच्चापेक्षाबुद्धिजन्यं तन्नाशनाश्यं च। परमाणुब्यणुकादावतीन्द्रिये तु द्वित्वादिकं भगवदपेक्षाबुद्धिजन्यम् अदृष्टनाशनाश्यं च (प्रशस्त० पृ० १३ ) ( त० कौ० १ ) (मु०)। अत्र भाष्यम् सा संख्या पुनरेकद्रव्या अनेकद्रव्या च । तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः। अनेकद्रव्या तु द्वित्वादिका परार्धान्ता । अत्रेदं विज्ञेयम् द्वित्वादिासज्यवृत्तिसंख्या च पर्याप्तिसंबन्धेनानेकाश्रिता समवायेन तु प्रत्येकाश्रिता ( भा० ५० श्लो०१०९) ११४ न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org