________________
९०४
न्यायकोशः। आजानिकस्तत्र या शक्तिरिति गीयते ॥ कादाचित्कस्त्वाधुनिकः शास्त्र कारादिभिः कृतः ( श० प्र० श्लो० २३ टी० वृ० २६ )। इदं ६ प्राचीनमताभिप्रायेण । नव्यमते च परिभाषापि शक्तिः इत्युच्यत इति बोध्यम् । २ नर्तकास्तु मनोगतभावव्यञ्जनाय कृतो हस्तादिचेष्टाविशेष इत्याहुः। ३ साहित्यशास्त्रज्ञाश्च प्रियसंगमार्थ व्यवस्थापित
गुप्तस्थानम् इत्याहुः। संकोचः-१ अवयवाकर्षणम् । यथा मतविशेषे मनसः संकोचविकाश
शालित्वात् ( भा० प० श्लो० ८५ मुक्ता० ) इत्यादौ संकोचशब्दस्यार्थः आकुश्चनम् । २ शाब्दिकास्तु बहुविषयकवाक्यस्याल्पविषयकतया व्यवस्थापनम् इत्याहुः । ३ मीमांसकाश्च सामान्यशब्दस्य विशेषपरत्वं संकोचः । यथा न हिंस्यात् इत्यस्य काम्यहिंसातिरिक्तहिंसापरत्वम् इत्यङ्गीचक्रुः। काव्यज्ञास्तु ४ जडीभावः । ५ बोधः। ६ बन्धः ।
७ मत्स्यविशेषः । ८ कुङ्कुमम् इत्याहुः ( वाच० )। संक्षेपः-१ एकस्मिन्ननेकेषां शब्दानामर्थानां वा संग्रहः । संक्षेपो द्विविधः
शब्दसंक्षेपः अर्थसंक्षेपश्चेति ( राम० )। तत्र शब्दसंक्षेपश्च भूयसोर्थस्याल्पवाक्यादिना प्रकाशनम् । अर्थसंक्षेपश्चानुगमः । स च अनुगम
शब्दस्यार्थवदनुसंधेयः । २ लघुत्वम् ।। संख्या-१ (गुणः ) [क] एकत्वादिव्यवहारहेतुर्गुणविशेषः (प्रशस्त०
पृ० १३ ) (त० सं०)। तथा चोक्तम् गुणत्वे सति हेतुत्वं तत्तद्धीव्यवहारयोः (ता० र० ) इति । सा च संख्या एकत्वादिपरार्धपर्यन्ता नवद्रव्यवृत्तिः चक्षुरिन्द्रियेण त्वगिन्द्रियेण च गृह्यते। संख्याप्रपञ्चस्तु उपस्कारे (वै० उ० ७।२।८ ) द्रष्टव्यः । मीमांसकास्तु संख्या गुणादावपि प्रतीतेः पदार्थान्तरमेव, इत्याहुः । अत्रेदमनुसंधेयम् संख्या तु व्यञ्जकाभावादव्यक्ता प्रातरादिवत् । यत्र तु व्यञ्जकं किंचित्तत्र संख्या प्रकाशते ॥ इति । [ख] संख्यात्वसामान्यवती। [ग] गणनाव्यवहारासाधारणकारणम्। सा चैकत्वद्वित्वबहुत्वभेदात्रिविधा। एकत्वादिपरार्धपर्यन्ता च (त० सं०) (प्र० प्र०) (त० को०)। अत्रेदं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org