________________
न्यायकोशः ।
१९०३
संकीर्णत्वम् — १ संकरवत्त्वम् । यथा संकीर्णजातिः इत्यादी । २ एकत्र विजातीयमेलनम् । यथा असंकीर्णबाधः इत्यादौ । ३ अशुद्धत्व प्रयोजको धर्मः इति धर्मज्ञा वदन्ति ।
संकेत: - १ ( पदवृत्तिः ) [क] इदं पदममुमर्थं बोधयतु इति अस्मापदादयमर्थे बोद्धव्यः इति वेच्छा ( चि० ४ ) ( ग० शक्ति० पृ० ३ ) ( त० प्र० ४ ) ( न्या० बो० ४ ) । यथा घटपदस्य कम्बुग्रीवादिमत्यर्थे संकेतः । इदं पदमित्यादेरर्थश्च इदं पदमेतदर्थविषयकबोधजनकं भवतु इति । अस्मादित्यादेरर्थस्तु अयमर्थ एतत्पदजन्यबोधविषयतावान् भवतु (ग० शक्ति० टी० पृ० ३ ) इति । संकेतग्रहस्तु व्याकरण वृद्धव्यवहारादितो भवति ( मु० ख० ४ ) ( श० प्र० लो० २० पृ० २२ ) (वै० वि० ७।२।२० )। तत्प्रपञ्चस्तु शक्तिशब्दव्याख्याने दृश्यः । [ ख ] पतञ्जलिस्तु पदपदार्थयोरितरेतराध्या सरूपः (स्मृत्यात्मकः ) । यथा योयं शब्दः सोर्थः योर्थः स शब्दः इति संकेत: इत्याह । संकेतस्य च लोके दर्शनेन तादृशेश्वर संकेतस्याप्यनुमानम् । अत एव न्यायवाचस्पत्ये उक्तम् सर्गादिभुवां महर्षिदेवतानामीश्वरेण साक्षादेव कृतः संकेतस्तव्यवहाराच्चास्मदादीनामपि सुग्रहस्तत्संकेत: इति ( ल० म० ) । [ग] अन्ये शाब्दिकास्तु अर्थबोधजनकः शब्दव्यापार इत्याहुः । अत्र मतभेदाः संकेतश्च जात्यादिचतुष्के इति वैयाकरणा आलंकारिकाचाहुः । तदुक्तम् संकेतो गृह्यते जातौ गुणद्रव्यक्रियासु च ( भर्तृहरिः ) इति । शब्दैरेव प्रतीयन्ते जातिद्रव्यगुणक्रियाः । चातुर्विध्यादमीषां तु शब्द उक्तश्चतुर्विधः ॥ ( काव्यादर्शे ) इति । जातिद्रव्यगुणस्पन्दै धर्मैः संकेतवत्तया । जातिशब्दादिभेदेन चातुर्विध्यं परे (शाब्दिकाः ) जगुः ॥ ( श० प्र० श्लो० १८ पृ० १७ ) इति । जात्याकृतिविशिष्टव्यक्तौ इति नैयायिका आहुः । अत्राधिकं च शक्तिशब्दव्याख्याने दृश्यम् । संकेतो द्विविधः आधुनिकसंकेत: ईश्वरसंकेतश्च । तत्राद्यः परिभाषा इत्युच्यते । द्वितीयः शक्तिः इत्युच्यते ( ग० शक्ति० पृ० ३ ) (वै० वि० ७।२।२० ) । तदुक्तं भर्तहरिणा आजानिकश्चाधुनिकः संकेतो द्विविधो मतः । नित्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org