________________
९०२
न्यायकोशः ।
I
(सा० द० परि० १० श्लो० ९९ ) इति । ६ धर्मज्ञास्तु अस्पृश्यस्पर्शादिरूपः संसर्गः । यथा चाण्डालादिसंकर इत्याहु: । अथ चाण्डालसंकरप्रायश्चित्तम् । तत्र च्यवनः चाण्डालसंकरेषु भवनदहनं पूरणं सर्वभाण्डभेदनं दारवाणां तक्षणं शङ्खशुक्तिरजत चेलानामद्भिः प्रक्षालनं कांस्यताम्राणामाकरशुद्धिः सौवीरपयोदधितत्राणां परित्यागः शेषर सयवसद्रव्यरक्षणं गोमूत्रयावकाहारो मासं क्षपयेत् बालवृद्धस्त्रीणामध प्रायश्चित्तम् इति । तथा आपस्तम्बोपि अन्त्यजातिरविज्ञातो निवसेद्यस्य वेश्मनि । स वै ज्ञात्वा तु काले तु कुर्यात्तत्र विशोधनम् ॥ चान्द्रायणं पराकं वा द्विजातीनां विशोधनम् । प्राजापत्यं तु शूद्राणां तथा संसर्गदूषणे ॥ इत्यादि । स्वल्पकालविषये सुमन्तुः अगम्यागमनस्त्रीवधचाण्डालसंपर्केषु कृच्छ्रत्रयम् इति । परंपरासंसर्गे तु वृद्धशातातपः अशुचि संस्पृशेद्यस्तु एक एव स दुष्यति । तत्स्पृष्टोन्यो न दुष्येत सर्वद्रव्येष्वयं विधिः ॥ इति । देवलोपि संस्पृश्याशुचिसंस्पृष्टं तृतीयं वापि मानवः । हस्तौ पादौ च प्रक्षाल्य तोयेनाचम्य शुद्ध्यति ॥ इत्यादि । ७ संमार्जन्यादिभिः क्षिप्तं रज इति काव्यज्ञा आहुः । संकल्पः -- १ अनासन्नक्रियेच्छा । यथा अनागतेषु सर्पव्याघ्रादिषु संकल्पर्ज दुःखम् ( प्रशस्त० २ पृ० ५१ ) इत्यादौ । २ धर्मज्ञास्तु कर्मसाधनायाभिलापवाक्यम् । यथा मनसा संकल्पयति वाचाभिलपति कर्मणा चोपपादयति ( ति० त० रघु० ) ( वाच० ) इत्यादी इत्याहुः । अत्रोक्तम् संकल्पमूलः कामो वै यज्ञा: संकल्प संभवाः । व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः ॥ ( एका ० त० ) । संकल्पेन विना राजन् यत्किंचित्कुरुते नरः । फलं स्यादल्पकं तस्य धर्मस्यार्धक्षयो भवेत् ॥ ( ब्रह्मपु० ) इति । ३ कर्मज्ञाश्च अभीष्टसिद्धये इदमित्थमेव कार्यम् इत्येवंरूपो मानसो व्यापारविशेष इत्याहुः । तत्रोक्तम् आशास्य च शुभं कार्यमुद्दिश्य च मनोगतम् इति । संकल्पश्च द्विविधः भावविषयः अभावविषयश्च । तत्राद्यः मयैतत्कर्तव्यम् इत्येवंरूपः । यथा पूजादि संकल्पः । द्वितीयस्तु मयैतन्न कर्तव्यम् इत्येवंरूपः । यथा उपवासादिसंकल्पः इति ।
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org