________________
न्यायकोशः। जातित्वात् ( ल० म०) इति। [ख] परस्परात्यन्ताभावसामानाधिकरण्ये सति जात्यन्तरेण सामानाधिकरण्यम् । यथा भूतत्वस्य मूर्तत्वादिना संकरः (दि. १) (वै० उ० १।२।३ )। तथा हि मनोन्तर्भावेनाकाशान्तर्भावेन च परस्परं स्वस्वात्यन्ताभावसमानाधिकरणयोभूतत्वमूर्तत्वयोः पृथिव्यादिचतुष्टये समावेशः इति भूतत्वं न जातिः इति विज्ञेयम् । भूतत्वाभाववति मनसि मूर्तत्वं तिष्ठति । यथा मूर्तत्वाभाववति चाकाशे भूतत्वं तिष्ठति । पृथिव्यादिभूतचतुष्टये तु भूतत्वं मूर्तत्वं चोभे तिष्ठतः इति संकरो ज्ञेयः। २ धर्मान्तरस्य समावेशः । विभिन्नधर्मवतोपि धयॆक्यं वा । यथा उपधेयसंकरेप्युपाधेरसंकरः इत्याद्यभियुक्तोक्तौ ( चि० १) (ग० सामा० ) ( भवा० ) काञ्चनमयहृदो वह्निमान् धूमात् इत्यादौ धूमरूपैकहेतौ बाधातिरिक्तस्याश्रयासिद्ध्यादेरपि समावेशः संकरः। ३ अभेदः (मू० म० प्रामाण्य० पृ० ४२०)। यथा अतिरिक्तविषयतापक्षे प्रकारभेदेनैकत्र विषयताभेद इति लक्षणद्वयसमावेशात्प्रमाभ्रमसंकरः (चि० १ प्रामा० पृ० ४१८ ) इत्यादिग्रन्थे संकरशब्दस्यार्थः अभेदः । ४ स्मृतिशास्त्रकृतस्तु एकवर्णपुरुषाद्विवाहितवर्णान्तरत्रियां जातो जातिविशेषः। यथा मूर्धावसिक्तसूतादिः इत्याहुः । अत्रेदं विज्ञेयम् अनुलोमजानामुपनयनादिसंस्काराहत्वम् प्रतिलोमजानां तु तदनहत्वम् इति । वर्णसंकरजातिश्च अनुलोमजा प्रतिलोमजापि नानाविधा । यथा विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । जातोम्बष्ठस्तु शूद्रायां निषादः पार्षदोपि च ॥ ( गरुडपु० अ० ९६ ) इत्यादि । ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते। निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ ( मनु० अ० १० श्लो० ८-४१) ( याज्ञ० अ० १ श्लो० ९१-९२) इत्यादि । अत्रेदमधिकं ज्ञेयम् । व्यभिचारेण वर्णानामवेद्यावेदनेन च । स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः ॥ ( मनु० अ० १० श्लो० २४ ) इति । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ( गीता० अ० १ श्लो० ४१ ) इति च । ५ आलंकारिकास्तु अलंकारविशेष इत्याहुः। तदुक्तम् अङ्गाङ्गित्वेलंकृतीनां तद्वदेकाश्रयस्थिता । संदिग्धत्वे च भवति संकरत्रिविधः पुनः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org