________________
न्यायकोशः। ३ पौराणिकास्तु ब्रह्मकन्या देवसेनाख्यः स्कन्दभार्यात्मको मातृकाविशेषः इत्याहुः । तदुक्तम् मातृकासु पूज्यतमा सा च षष्ठी प्रकीर्तिता । शिशूनां प्रतिविश्वेषु प्रतिपालनकारिणी ॥ ( ब्रह्म० वै० प्र० अ० १) ( स्कन्दपु० ) ( वाच०) इत्यादि । ताश्च षोडश मातृकाः गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ शान्तिः पुष्टिधृतिस्तुष्टिः कुलदेवात्मदेवताः इति । अन्या अपि सप्त ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः ॥ इति.। पाटपौरुषम्-(श्राद्धम् ) महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च ।
नवदैवतमत्रेष्टं शेषं षाटपौरुषं विदुः ॥ (पु० चि० पृ० ३८४ )।
स-१ विष्णुः । २ सर्पः । ३ ईश्वरः। ४ विहगः । ५ समासे पूर्वपदस्थः
सहार्थः । यथा सपितृकः इत्यादौ । ६ समानार्थः । यथा सरूपः इत्यादौ। ७ छन्दःशास्त्रज्ञास्तु अन्तगुरुक आदिलघुद्वयको यो वर्णगणः तस्य स इति नाम इत्याहुः । तदुक्तम् आदिमध्यावसानेषु यरता यान्ति लाघवम् ।
भजसा गौरवं यान्ति मनौ तु गुरुलाघवम् ॥ (श्रुतबो० ) इति । संकरः-१ [क] परस्परात्यन्ताभावसमानाधिकरणयोधर्मयोरेकत्र
समावेशः (दि. १) (वै० वि० १।२।३ )। एतत्संकरलक्षणं च परस्परात्यन्ताभावसमानाधिकरणपदार्थद्वयसामानाधिकरण्यत्वम् इति ( ल० व०)। स्वसामानाधिकरण्य स्वाभावसामानाधिकरण्य स्वसमानाधिकरणाभावप्रतियोगित्व एतत्रितयसंबन्धेन यत्किंचिजातिविशिष्टत्वं समुदितार्थः इति गुरुचरणाः ( भिकुशास्त्री गोडबोले ) प्राहुः । अयं संकरश्च जातित्वे बाधकः इति विज्ञेयम् (नील०)। श्रीहर्षकृतखण्डने त्वेवं प्रतिपादितम् न सांकर्यस्य सर्वथा जात्यभावकल्पकत्वम् । मानाभावात् । एवं च
भूतत्वमूर्तत्वे पृथिवीत्वशरीरत्वे च जातिरूपे एव । क्रियासमवायिकारण. तावच्छेदकतया मूर्तत्वादेरिव भूतादिपदशक्यतावच्छेदकतया भूतत्वादेरपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org