________________
न्यायकोशः। विज्ञेयम् ( श० प्र० श्लो० ६७ टी० पृ० ७८ )। गुरुविप्रतपस्विदुर्गतानामित्यत्र शाब्दिकास्तु विपत्तौ इति अध्याहृतनामार्थे षष्ठयर्थान्वयः इति नेयं कारकषष्ठी इत्याहुः (का० व्या० )। तण्डुलस्य पाचक इत्यत्र धात्वर्थे पचनादौ कृद्योगे कर्तृकर्मणोः षष्ट्यनुशिष्टेः कर्मत्वकर्तृत्वादिकं कारकमेव इति कारकाथैव षष्ठी इति ज्ञेयम् (श० प्र० पृ० ७८ )। यद्वा अत्र कर्मणि द्वितीया ( पाणि० २।३।२ ) कर्तृकरणयोस्तृतीया (पाणि० २।३।१८) इत्याभ्यां सूत्राभ्यां विहिताभ्यां द्वितीयातृतीयाभ्यां शक्त्या बोधिते कर्तृत्वकर्मत्वे कर्तृकर्मणोः कृति ( पाणि० २।३।६५ ) इति सूत्रेण विहिता षष्ठी लक्षणया बोधयति इति ज्ञेयम् । लक्षणाबीजं तु तादृशयोः कर्तृत्वकर्मत्वयोः संबन्धत्वेन बोधने तात्पर्यानुपपत्तिरेव । प्रकारतया बोधन एव तात्पर्यादिति हृदयम् । अत्रायं विशेषोनुसंधेयः। कारकविभक्तिभिन्नविभक्त्यर्थस्य क्रियायामनन्वयः इति नियमो नास्ति । तथा हि मणिकारमते तस्माज्जानाति इत्यादौ ज्ञानादिरूपधात्वर्थे हेतुविभक्त्यर्थस्यान्वयः । तस्मात्स्थीयते इत्यादौ च सर्वमत एव धात्वर्थस्थित्यादौ हेतुविभक्त्यर्थस्यान्वयः । गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः इत्यादौ तु षष्ठयर्थसंबन्धम्यापि धात्वर्थेन्वयो दृष्टः इति तादृशनियमो नास्ति ( ग० व्यु० का० २ ख० २ पृ० ५६ ) इति । गुरुविप्रेत्यत्र शाब्दिकानुयायिनस्तु रोगे इति नामाध्याहृत्य तदर्थे षष्ठयर्थस्य संबन्धस्यान्वयः कर्तव्यः । तथा च संबन्धस्य कारकत्वाभावेन क्रियायोगाभावान्नेयं कारकषष्ठी इत्याहुः ( का० व्या० पृ० १)। शेषषष्टीत्यस्यायमर्थः । शेषः कारकादवशिष्टः स्वस्वामिभावावयवावयविभावादिः संबन्धः कारकादन्यो वा । तत्रार्थे षष्ठी शेषषष्ठी इत्युच्यते। यथा राज्ञः पुरुषः रजकस्य वस्त्रं ददाति इत्यादौ षष्ठी। राज्ञ इत्यत्र षष्ठया स्वत्वरूपः संबन्धो बोध्यते । स च न कारकम् । न वा तदर्थिका षष्ठयादिः कारकविभक्तिः इति ज्ञेयम् । रजकस्येत्यत्र च परिष्कार्यत्वादिलक्षणः संबन्धो वस्त्रादावेव षष्ठयानुभाव्यते इति शेषषष्ठी इति विज्ञेयम् (श० प्र० श्लो० ६७ टी० पृ० ७७ )। २ मौहुर्तिकास्तु चन्द्रमसः षष्ठकलाया ह्रासवृद्धिरूपक्रियात्मकस्थितिविशेषः इत्याहुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org