________________
८९८
न्यायकोशः। श्लो० ६६ पृ० ७६ ) इति । अत्रेदं शाब्दिकमतं विज्ञेयम् । षष्ठ्यर्थः संबन्धत्वेन तत्तद्रूपेण च स्वस्वामिभावादिः संबन्धः संबन्धत्वेन क्रियाकारकभावश्च । अत एवानेकसंबन्धसत्त्वेपि स्वत्वादिसंबन्धविशेषतात्पर्येण चैत्रस्य नेदं वासः इति प्रयुज्यते । अत एव एकशतं षष्ठयर्थाः इति षष्ठी स्थानेयोगा ( पाणि० १।१।४९ ) इति सूत्रस्थं भाष्यं संगच्छते । द्वितीयादितश्च क्रियाकारकभावस्य तत्तद्रूपेणैव बोधः। तथैवानुभवात् । मातुः स्मरति इत्यादौ च तत्तद्रूपेण बोधे द्वितीयादीनां बाधिकानां सत्त्वात्संबन्धत्वेनैव बोधः मातृसंबन्धि स्मरणम् इति नव्या आहुः । प्राश्वस्तु अत्रापि क्रियाकारकभावमूलक विशेषणत्वरूपं विषयत्वमेव निमित्तत्वमेव वा तत्त्वेन संबन्धत्वेन वा विवक्षितम् । क्रियाकारकभावसंबन्धः कारणम् । शेषसंबन्धस्तु फलभूतः । यथा राज्ञः पुरुष इत्यत्र राजपुरुषो कर्तृसंप्रदानरूपावभूताम् राजा पुरुषाय ददाति इति । तन्मूलकस्वस्वामिभावप्रतीतौ कादिविशेषरूपतानवगमः इत्याहुः ( ल०. म० कार० ६ पृ० ११३)। अत्रायं विवेकः । षष्ठी द्विविधा कारकषष्ठी शेषषष्टी चेति । शब्दशक्तिप्रकाशिकाकृन्मते यया धात्वर्थे प्रकारतया कर्तृत्वकर्मत्वादि बोध्यते सा कारकषष्ठी। यया तु धात्वर्थातिरिक्त स्वार्थशेषः संबन्धः बोध्यते सा शेषषष्ठी। गदाधरादीनां मंते तु यया धात्वर्थे स्वार्थकर्तृत्वकर्मत्वादि संबन्धत्वेनैव बोध्यते न तु प्रकारतया सा कारकषष्ठी । यया तु धात्वर्थातिरिक्ते स्वार्थः संबन्धत्वेनैव बोध्यते सा शेषषष्ठी इति चिन्तनीयः । अत्रेदमवधेयम् । क्रियाप्रकारीभूतोर्थः कारकम् । तत्रार्थे षष्ठी कारकषष्ठी इत्युच्यते । यथा सा लक्ष्मीरुपकुरुते यया परेषाम् । पद्मस्यानुकरोत्येष कुमारीमुखमण्डलः । गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः इत्यादावपि मातुः स्मरति चौरस्य हिनस्ति जलस्योपस्कुरुते इत्यादाविव क्रियाविशेषयोगे कारकाथैव षष्ठी । तण्डुलस्य पाचकः मैत्रस्य भोक्तव्यम् इत्यादावपि षष्ठी कारकषष्ठयेव ( श० प्र० पृ० ७८ )। सा लक्ष्मीरित्यत्र प्रयोगदृष्ट्या प्रत्यनूपेभ्यः करोतेः कर्मण्यपि वैकल्पिकः षष्ठीविधिर्वक्तव्यः इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org