SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । ८९७ श्वासमासाद्य दुनोत्यहरहर्निशम् ।। (भृगु भार० ) ( वाच० ) इति च । ३ शाब्दिकास्तु शिक्षोक्तो वर्णोश्वारणार्थो बाह्यप्रयत्नविशेष इत्याहुः । ष षडहः — अहोरात्रसाध्य एकः सोमयागो वेदे अहः शब्देनोच्यते । तादृशानां षण्णामहर्विशेषाणां गणः षडहः । पञ्चभिः षडहैमसो भवति । तत्र चत्वारः षडहा अभिप्लवसंज्ञाः । पञ्चमः पृष्ठयसंज्ञः ( पुरु० पृ० १० ) । षष्ठी - १ ( विभक्तिः ) [ क ] यत्किचिद्धात्वर्थे स्वार्थान्वयाबोधिका सुप् । यथा चैत्रस्येदम् इत्यादौ षष्ठी । अत्र संबन्धविवक्षायां कारकविभक्त्यप्रसक्तेः षष्ठी शेषे ( पाणि० २।३।५० ) इत्यनेन सूत्रेण चैत्रस्येदम् इत्यादौ षष्ठी । चैत्रस्य द्रव्यम् इत्यादौ सत्वस्य चैत्रस्य स्वम् घटस्य कारणम् चैत्रस्य हस्तः इत्यादौ निरूपितत्वावयवत्वादीनां संबन्धत्वेनैव षष्ठ्यर्थता न तु विशिष्य निरूपितत्वत्वावयवत्वत्वादिना । शक्त्यानन्त्य - प्रसङ्गात् । संयोगादिसंबन्धसत्त्वेपि चैत्रस्य नेदं वासः इत्यादौ स्वत्वादिसंबन्धविशेषबोधतात्पर्येण यत्र नम् प्रयुज्यते तत्र विशेषरूपेण षष्ठ्याः लक्षणैव । इत्थमेव च संबन्धत्वेन कर्मत्वादिविवक्षया मातुः स्मृतम् इत्यादौ अधीगर्थदयेशां कर्मणि ( पाणि० २।३।५२ ) इत्यनुशासनस्य नियमपरतया सार्थक्योपपादनं वृत्तिकृतामुपपद्यते । एवमेव नाग्निस्तृप्यति काष्टानां न पुंसां वामलोचनाः इत्यादौ करणत्वादेः संबन्धत्वेन विवक्षायां षष्ठयुपपत्तिः । अत एव च आमं शूद्रस्य पकान्नं पकमुच्छिष्टमुच्यते इत्यत्र पक्कम् इत्यत्रानुषज्यमानायाः षष्ठ्याः संबन्धत्वेन कर्तृत्वमर्थः न तु स्वत्वम् । शूद्रकर्तृकवृषोत्सर्गे चरुहोमानुपपत्तेः इति नवीन स्मार्तानां मतमप्युपपद्यते ( ग० व्यु० का० ६ पृ० ११२ ) । [ख] शाब्दिकादयस्तु संबन्धमासान्ये स्वत्वादौ वा शक्ता सुप् । यथा राज्ञः पुरुषः चैत्रस्य धनम् इत्यादौ षष्ठी इति वदन्ति । ग्रामं गच्छति पटं ददाति इत्यादौ च धात्वर्थतावच्छेदकीभूते संयोगस्वत्वादौ द्वितीययाधेयत्वमेव बोध्यते न तु संबन्धसामान्यं बोध्यते इति न तत्रातिप्रसङ्गः ( श० प्र० ११३ न्या० को ० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy