________________
न्यायकोशः। यावद्रव्यभावित्वेन वायुविशेषगुणत्वाभावात् (मु० १ आकाशनि० पृ० ८८ ) इति । [ख] वने सिंहनादः इति शब्दप्रत्यक्षासाधारणकारणम् । तच्च कर्णशष्कुल्यवच्छिन्नं नभः (प्र० प्र०) (न्या० म० १ पृ० १४ ) ( त० कौ० )। अत्र भाष्यम् । श्रोत्रं पुनः श्रवणविवरसंज्ञको नभोदेशः । शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धः । तस्य च नित्यत्वे सत्युपनिबन्धकवैकल्याद्बाधिर्यम् ( प्रशस्त० पृ० ७) इति । नव्यास्तु ईश्वर एव श्रोत्रेन्द्रियम् नेश्वरादतिरिक्तम् इत्याहुः ( राम० १ पृ० ११८ )। सांख्या वेदान्तिनश्च सात्त्विकांशसूक्ष्मांशः श्रोत्रम् इत्याहुः । तन्मते शब्दस्य पञ्चभूतगुणतया शब्दाधारवायुना झटिति कर्णदेशे यथावेगं धावमानेन कर्णप्रापणसंभवः । तेन शब्दोपलम्भः इति । तन्मते श्रवणेन्द्रियस्य प्राप्यकारित्वम् इत्युक्तिरप्येतत्परा इति बोध्यम् ( वाच० ) । काव्यज्ञास्तु श्रोत्रेन्द्रियाधारो गोलकं कर्णः
श्रोत्रम् इत्याहुः । श्लाघनम्-बोधविषया स्तुतिः । यथा गोपी स्मरात्कृष्णाय श्लाघते इत्यादौ
श्लाघतेरर्थः । अत्र धात्वर्थघटकबोधाश्रयस्य श्लाघहस्थाशपां ज्ञीप्स्यमानः ( पाणि० १।४।३४ ) इति सूत्रेण संप्रदानत्वम् । ज्ञीप्स्यमानपदेन प्रधानभूतण्यर्थकर्मणो ग्रहणम् । अत्र श्लाघधात्वर्थैकदेशस्य बोधस्य फलतावच्छेदकः संबन्धो वृत्तिता। स्तुतिस्तु गुणवत्त्वप्रतिपादकशब्दप्रयोगादिः । स्मरात् इति हेतौ पञ्चमी । एवं च गोपीकर्तृका स्मरहेतुकृष्णसंप्रदानिका अर्थात् कृष्णवृत्तिबोधविषया स्तुतिः इति बोधः
( ल० म० कारक० ४ पृ० १०२ )। श्वासः-१ वायुव्यापारविशेषः । यथा मनुष्यस्य पृथगेकैकस्मिन्दिन
एकविंशति सहस्राणि षट् शतानि च ( २१६०० ) श्वासा भवन्ति इति । श्वासो नाम बाह्यस्य वायोरन्तरानयनम् (सर्व० सं० पृ० ३७६ पात० )। २ रोगविशेषः इति भिषज आहुः । श्वासहेतुरुक्तः यस्तु यज्ञं समासाद्य पशुश्वासं निरुद्ध्य च । हन्ति खादति वा तं स महाश्वासेन गृह्यते ॥ इति । पौराणिककथामध्ये यस्तु वाचान्यथा वदेत् । स ऊर्ध्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org