________________
२०७
न्यायकोशः। ज्ञानाजिज्ञासा । ततो ज्ञानसाधनीभूतवाक्येच्छा । ततो वाक्यसाधनीभूतकण्ठाद्यभिघातेच्छा । ततस्तत्र प्रवृत्तिः । ततः कण्ठाद्यभिघातः । ततोनन्तराभिधानं निरूपणीयस्य ( म०प्र० २ पृ० १५) इति । [ख] अनन्तराभिधानप्रयोजकजिज्ञासाजनकं यत्संगतिनिरूपकज्ञानप्रयोज्यं ज्ञानं तद्विषयस्मरणानुकूलसंबन्धः । संगतिः षड्विधा प्रसङ्गः १ उपोद्धातः २ हेतुत्वम् ३ अवसरः ४ निर्वाहकैक्यम् निर्वाहकत्वं वा ५ कायॆक्यम् एककार्यत्वं वा ६ इति । तदुक्तम् सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा। निर्वाहकैक्यकार्यक्ये षोढा संगतिरिष्यते ॥ ( राम० २ पृ० १३४ ) (वै० सा० द० ) इति । वेदान्तिनस्तु शास्त्रेध्याये तथा पादे न्यायसंगतयस्त्रिधा इति । अवान्तरसंगतयस्तु आक्षेपसंगतिः दृष्टान्तसंगतिः प्रासङ्गिकसंगतिः मीमांसासंगतिः एवमादिभेदेनानेकविधा इत्याहुः
( वाच० )। २ संगमः । ३ संमेलनम् इति काव्यज्ञा आहुः । संगीतम्-१ दर्शनार्थं नाट्यगीतवाद्यत्रिकम् (हेमच०)। यथा संगीतरसमाधुर्यम् इत्यादौ संगीतशब्दस्यार्थः । अत्र प्रशंसा पशुर्वेत्ति शिशुर्वेत्ति वेत्ति गानरसं फणी। संगीतरसमाधुर्यं शंकरो वेत्ति वा न वा ॥ इति । अत्र धूर्तबकाः प्रलपन्ति वानवा इत्येकं पदम् । तथा च वानवा विदुरः प्रोक्तः इति कल्पितप्रमाणात् शंकरो वेत्ति विदुरोपि वेत्ति इति वाक्यार्थो भवति इति । २ तादृशत्रिकप्रतिपादको ग्रन्थः। संगीतशास्त्राणि च नानाविधानि । तत्र मूलपन्थकरिश्वत्वारः भरतः हनुमान सोमेश्वरः कलानाथश्चेति । तत्र हनुमगन्थस्यैव लोकेधुना बहुलप्रचारः। तद्वन्थस्य च सप्ताध्यायाः स्वराध्यायः रागाध्यायः तालाध्यायः नृत्याध्यायः भावाध्यायः कोकाध्यायः हस्ताध्यायश्चेति । अत्रत्यः संगीत
सारादौ विस्तारो दृश्यः। संग्रहः-१ [क] स्नेहद्रवत्वकारितः संयोगविशेषः पिण्डीभावरूपः ।
यथा सक्तुकादिसंयोगविशेषः । स च जलेनापि सक्तुसिकतादौ दृश्यमानः स्नेहं जले द्रढयति ( वै० उ० २।१।२ पृ० ७२)। द्रवत्वसहितः स्नेहस्तु संग्रहे निमित्तं कारणम् (भा० ५० गु० श्लो० १५७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org