________________
न्यायकोशः। (ग० व्यु० ५।२१)। अत्र स्वं विभागाश्रयो वृक्षः । तन्निष्ठः क्रियावत: पर्णात्सकाशात् भेदः । तत्प्रतियोगितायाः पर्णनिष्ठाया अवच्छेदिका पतनक्रिया। तज्जन्यविभागाश्रयत्वं वृक्षस्येति । अत्र क्रियायां स्वनिष्ठभेदप्रतियोगितावच्छेदकत्वविशेषणेन पर्णादेः स्वनिष्ठवृक्षादिविभागजनकपतनापादानवनिरास इति ज्ञेयम् (ग० व्यु० ५।२१)। [ग] परकीयक्रियाजन्यविभागाश्रयत्वम् ( का० व्या० ९)। यथा वृक्षात्पर्ण पततीत्यादौ वृक्षादेरपादानता । अत्र पञ्चम्या अन्योन्याभावप्रतियोगितावच्छेदकत्वं विभागजनकत्वं चार्थः । विभागे अन्योन्याभावे च वृक्षोन्वेति ( का० व्या० ९)। तथा च वृक्षनिष्ठभेदप्रतियोगितावच्छेदकं तन्निष्ठविभागजनकं च यत् पतनं तदाश्रयः पर्णमित्याकारको बोधः ( ग० व्यु० ५।२१)। [घ ] अवधित्वम् । यथा वृक्षाद्विभजत इत्यादौ वृक्षादेरपादानता (ग० व्यु० ५।२१)। अत्र वृक्षाद्यवधिकत्वविशिष्टविभागनिरूपितमेवाश्रयत्वमाख्यातेन बोध्यते । अतो वृक्षः स्वस्माद्विभजते इति न प्रयोगः ( ग० व्यु० ५।२१)।, विशेषस्तु पञ्चमीशब्दव्याख्याने व्यक्तीभविष्यति । शाब्दिकमते अपादानं च [ 0] ध्रुवमपायेपादानम् ( पाणिनिसूत्रम् १।४।२४ )। अपाये विभागे ध्रुवं निश्चलम् प्रकृतपञ्चम्यर्थविभागजनकत्वान्वयिक्रियाशून्यमित्यर्थः ( का० व्या० ९)। तत्रोक्तं हरिणा-अपाये यदुदासीनं चलं वा यदि वाचलम् । ध्रुवमेवातदावेशात्तदपादानमुच्यते ॥ पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ॥ उभावप्यध्रुवौ मेषौ यद्यप्युभयकर्मजे । विभागे प्रविभक्ते तु क्रिये तत्र व्यवस्थिते ॥ मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक पृथक् ।। इति । अपाये गतिविशेषे सति यद्भुवम् अवधिभावोपगमाश्रयत्वे सति तदतिरिक्तस्यावधित्वोपयोगिव्यापारस्यानाश्रयं तदपादानमिति सूत्रार्थः । अस्य पदकृत्यं शब्देन्दुशेखरे स्पष्टम् । [च ] विश्लेषाश्रयत्वे सति विश्लेषजनकधात्वर्थतत्तत्क्रियानाश्रयः (वै० सा०)। [छ] अवधिभावोपगमव्यापारम् (ल० म० )। अपादानं त्रिविधम् । निर्दिष्ट
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org