________________
५७
न्यायकोशः। ( त० भा० ५१) । सौगतास्त्वपसिद्धान्तं दूषणं न मन्यन्ते
(गौ० वृ० ५।२।२३ )। अपह्नवः-[क ] अबाधितपरोक्तविपरीतबोधनाय तदुपपादकाभावप्रतिपादनेच्छा । यथा कलिङ्गेषु दृष्टोसि । नाहं कलिङ्गाञ्जगामेत्यादावत्यन्तापह्नवः (ग० व्यु० ल० )। अत्र च कलिङ्गाधिकरणकदर्शनादेरुपपादकं कलिङ्गगमनादिकम् । तेन विना तदसंभवात् । अत्यन्तापह्नवः स्वरूपसन्नेव ( न तु ज्ञातः ) लिट्साधुतानियामकः (ग० व्यु० ल० )। [ख] सत्त्वेन ज्ञातस्यापि वस्तुनः असत्त्वेन कथनम् । स द्विविधः शब्दतार्थतश्चेति । तत्र मिथ्यैव तत् इति शब्दतः । अर्थतस्तु नाभि
जानाम्यहम् । तत्र तदा न मम स्थितिः इति ( वाच० )। अपादानत्वम्- (कारकम्) यद्धातूपस्थाप्ययादृशार्थे विग्रहवाक्यपञ्चम्या
यः स्वार्थोनुभावयितुं शक्यः तस्य तद्धातूपस्थाप्यतादृशक्रियायामपादानत्वमुच्यते । यथा वृक्षात्पतित इत्यादौ वृक्षादेरपादानत्वम् ( श० प्र० ७९ । अपगमाय आदीयते अवधित्वेनेति व्युत्पत्तिः ( वाच० )। अपादानशब्दस्तु तत्तत्कर्मानधिकरणीभूते तत्तत्कर्मजन्यविभागाश्रये शक्त इत्यवधेयम् । वृक्षात्पतित इत्यस्माद्वाक्यात् वृक्षावधिकविभागानुकूलपतनकर्ता इत्यन्वयबुद्धौ धातूपस्थाप्यपतने पञ्चम्युपस्थाप्यो विभागः स्वानुकूलत्वसंबन्धेन प्रकार इति स विभाग एव तत्रापादानत्वमिति विज्ञेयम् ( श० प्र० ७९)। अत्रावधित्वं च स्वरूपसंबन्धप्रभेदः पदार्थान्तरं वेत्यन्यदेतत् । अपादानत्वं च [क] क्रियानाश्रयत्वे सति तजन्यविभागाश्रयत्वम् (ग० अव० )। परसमवेतक्रियाजन्यविभागाश्रयत्वमित्यर्थः । यथा भूभृतो गङ्गावतरतीत्यादौ भूभृतो गङ्गासमवेतक्रियाजन्यविभागाश्रयत्वादपादानत्वम् । गङ्गायामतिव्याप्तिवारणाय परसमवेतेति क्रियायां विशेषणम् ( श० प्र० ६ )। वृक्षात्पर्ण पततीत्यादौ पर्णक्रियया वृक्षपर्णयोर्विभागो जायते । तत्र क्रिया पर्णमात्रनिष्ठा विभागस्तूभयनिष्ठ इति वृक्षस्य क्रियानाश्रयत्वं विभागाश्रयत्वं च संगच्छत इत्यवधेयम् । [ख] स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियाजन्यविभागाश्रयत्वम् न्या० को०८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org