________________
न्यायकोशः। अपशब्दः-शक्तिवैकल्यप्रमादादिना साधुशब्दस्यान्यथोच्चारणसाध्योपभ्रंश- शब्दः । यथा म्लेच्छो ह वा नाम यदपशब्दः (पा० म० भा० ..... १११११)। हरिणाप्युक्तम्-त एव शक्तिवैकल्यप्रमादालसतादिभिः ।
अन्यथोच्चारिताः शब्दा अपशब्दा इतीरिताः ॥ इति । अपसिद्धान्तः-(निग्रहस्थानम् ) [क] सिद्धान्तमभ्युपेत्यानियमात्कथा.. प्रसङ्गः (गौ० ५।२।२४) । कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय
प्रतिज्ञातार्थविपर्ययादनियमात्कथां प्रसञ्जयतोपसिद्धान्तो. वेदितव्यः । यथा न सदात्मानं जहाति न सतो विनाशो नासदात्मानं लभते नासदुत्पद्यत इति सिद्धान्तमभ्युपेत्य स्वपक्षं व्यवस्थापयति-एकप्रकृतीदं व्यक्तम् । विकाराणामन्वयदर्शनात् । मृदन्वितानां शरावादीनां दृष्टमेकप्रकृतित्वम् । तथा चायं व्यक्तभेदः सुखदुःखमोहान्वितो दृश्यते। तस्मात्समन्वयदर्शनात्सुखादिभिरेकप्रकृतीदं शरीरमिति । एवमुक्तवाननुयुज्यते । अथ प्रकृतिर्विकार इति कथं लक्षितव्यमिति । यस्यावस्थितस्य धर्मान्तरनिवृत्ती धर्मान्तरं प्रवर्तते सा प्रकृतिः । यच्च धर्मान्तरं प्रवर्तते स विकार इति । सोयं प्रतिज्ञातार्थविपर्यासादनियमात्कथां प्रसञ्जयति । प्रतिज्ञातं खल्वनेन नासदाविर्भवति न सत्तिरोभवतीति। सदसतोश्च तिरोभावाविर्भावमन्तरेण न कस्यचित्प्रवृत्तिः प्रवृत्युपरमश्च भवति । मृदि खल्ववस्थितायां भविष्यति शरावादिलक्षणं धर्मान्तरमिति प्रवृत्तिर्भवति । अभूदिति च प्रवृत्त्युपरमः । तदेतन्मृद्धर्माणामपि न स्यात् । एवं प्रत्यवस्थितो यदि सतश्चात्महानम् असतश्चात्मलाभमभ्युपैति तदस्यापसिद्धान्तो निग्रहस्थानं भवति । अथ नाभ्युपैति पक्षोस्य न सिध्यति । ( वात्स्या० ५।२।२४ )। [ख ] कथायां स्वीकृतसिद्धान्तप्रच्यवः । तथा च सांख्यमतेन अहं वदिष्यामीत्यभ्युपेत्यारब्धायां कथायामावि
र्भावस्याविर्भावाभ्युपगमेनवस्थेति दूषणोद्धारायाविर्भावस्यासत उत्पत्ति " यद्यभ्युपैति तदापसिद्धान्तः ( गौ० वृ० ५।२।२४ ) (दि. १)। [ग] एकसिद्धान्तमतमाश्रित्य कथाप्रवृत्तौ तद्विरुद्धसिद्धान्तमतमालम्ब्योत्तरदानम् (नील० ४६ ) । सिद्धान्तादपध्वंसोपसिद्धान्त इत्यर्थः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org