________________
न्यायकोशः। भीमानदी स्वसमवायिसंयुक्तसंयोगेनाल्पतरदेशसंयोगवती इति ज्ञानेन दैशिकमपरत्वमुत्पद्यते । अधिकं तु अन्यत्र (वै० उ०७।२।२१) द्रष्टव्यम्। कालकृतत्वं च स्वसमवायिसंयुक्तसंयोगसंबन्धेन रविक्रियाप्रकारककालविषयकज्ञानजन्यत्वम् ( वाक्य ) । अल्पतरदिवाकरक्रियाविशिष्टशरीरज्ञानात् अपरत्वोत्पत्तिः ( सि० च० १।१८) । दिकृतमपरत्वमिदमस्मात्संनिकृष्टम् इत्यपेक्षाबुद्ध्या जन्यते ( दि. १)। अवलोकनीयात्र दिक्शब्दव्याख्या । कालकृतमपरत्वं तु अयमस्मादल्पतरकालसंबद्धः इत्यपेक्षाबुद्ध्या जन्यते (दि. १) । अवलोकनीयात्र कालशब्दव्याख्या । अत्र नव्या आहुः-अल्पतरसूर्यपरिस्पन्दान्तरितजन्यत्वरूपकनिष्ठत्व-अल्पसंयोगान्तरितत्वरूपसंनिकृष्टत्वाभ्यां कालिकदैशिकापरत्वव्यवहारोपपत्ते
परत्वस्य गुणान्तरत्वम् इति (दि० गु० पृ० २०९ )। अपराजिता-मासि भाद्रपदे शुक्ला सप्तमी या गणाधिप । अपराजितेति
विख्याता महापातकनाशिनी ॥ (पु० चि० पृ० १०४)। अपराह्नः-पञ्चधा विभक्तेहनि चतुर्थो भागः । २ द्विधा विभक्तेहन्युत्तरो
भागः ( मिताक्षरा अ० २ श्लो० ९७ )। अपरिग्रहः—(व्रतम् ) सर्वभावेषु मूर्छायास्यागः स्वादपरिग्रहः ( सर्व०
सं० पृ० ६६ आईत०)। अपर्वगः-१ अस्यार्थो निःश्रेयसवदनुसंधेयः । आत्यन्तिकी दुःखनिवृत्तिरपवर्गः । निवृत्तेरात्यन्तिकत्वं नाम निवर्त्यसजातीयस्य पुनस्तत्रानुत्पादः ( सर्व० सं० पृ० २४६ अक्षपा० ) । २ फलप्राप्तिः । यथा अपवर्गे
तृतीया ( पाणि० सू० २।३।६ ) इत्यादौ ।। अपवादः-१ बाधनसाधनं वस्तुमात्रम् । २ विशेषशास्त्रम् । यथा मा हिंस्यात्सर्वा भूतानीत्युत्सर्गस्य वायव्यश्वेतमालभेत इति शास्त्रमपवादः। ३ मिथ्याभूतपदार्थनिवारणार्थमुपदेशविशेष इति मायावादिन आहुः । ४ मिथ्यावाद इति सांख्याः । ५ निन्दा निरासनं वेति काव्यज्ञाः । (वाच० )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org